कल्पस्याखंडकल्पस्यानादिकालमनुवृत्तस्वेत्यर्थः। भ्रमस्य तत्कृतसंसारस्य योग्यः क्षण इह विक्षेपविषये इष्यताम् ॥ ५५ ॥
मतानामनेकत्वे सम्यग्विचाराभाव एव कारणम् ।
वस्तुतो युक्तिमात्रं प्रमाणीकृत्य वदतां रीतिमनुसृत्य समाधानमिदमुक्तम्। श्रुतिप्रमाणकानां वेदान्तिनां श्रुतिसिद्धार्थे न केवलयुक्त्यपेक्षेति मुख्यं समाधानमाह, विनेति ।
विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते । |
क्षोदक्षमं विचारसहं मानं प्रमाणं विना तैस्तार्किकैर्वृथा शास्त्रप्रमाण- मन्तरेण निरर्थकं केवलयुक्त्या कल्प्यते । श्रुतियुक्त्यनुभूतिभ्यः श्रुतिः “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथसंपत्स्य’ (छां.६.१४.२.) इत्यादिः,युक्तिर्मुक्ते षुवदित्यादिः, अनुभूतिः ज्ञानिनां,ताभ्यः तदालंबनेनेत्यर्थः । वदतां वेदान्तिनामस्माकं किं नु दुश्शकं ? न किमपि ॥ ५६॥
अतिफल्गुतया तार्किकवादमुपेक्ष्य वक्तव्यमाह, आस्तामिति ।
आस्तां दुस्तार्किकैस्साकं विवादं प्रकृतं ब्रुवे । |
दुस्तार्किकैः प्रमाणमपहाय केवलयुक्यवष्टंभतया दुष्टा ये तार्किकास्तैस्साकं विवाद आस्ताम्, तद्विषये नास्माभिरतीव प्रयत्यते, प्रकृतमुपदेश्यं ब्रुवे । किं तदित्यत आह, स्वेति । स्वाहमोः स्वयन्ताहन्ताविशिष्टयोः कूटस्थपरिणामिनोः कूटस्थस्योपाधिकल्पितपरिणामवच्चिदाभासस्य च एकत्वं तादात्म्यं सिद्धं भ्रान्ति- सिद्धं । भ्रान्तिपरिहाणेऽहंकारास्पदचिदाभासादतिरिक्त एव कूटस्थो न त्वहंकारा- स्पद इति प्रतीयते ॥ ५७ ॥
तद्वादस्य फल्गुतयोपेक्ष्यत्वे कारणमाह, भ्राम्यन्त इति ।