पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१५९
कल्याणपीयूषव्याख्यासमेता

भ्राम्यन्ते पंडितंमन्याः सर्वे लौकिकतैर्थिकाः ।
अनादृत्य श्रुतिं मौर्ख्यात्केवलं युक्तिमाश्रिताः ॥ ५८ ॥

 सर्वे लैकिकतैर्थिकाः युक्तिमात्रानुसारेण तत्त्वं निश्चितुं प्रवृत्ता दर्शनप्रवर्तकाः पंडितंमन्याः पंडितानात्मनो मन्यमानाः श्रुतिमनादृत्य मौर्ख्यात् केवलं युक्तिमाश्रिता भ्राम्यन्ते भ्रान्तिं गत्वाऽपमार्गेषु प्रवर्तन्त इत्यर्थः ॥ ५८॥

 ननु नास्तिकदर्शनप्रवर्तकानां श्रुत्यनादरणसत्वेऽप्यास्तिकदर्शनप्रवर्तक साधारण्येन तदनादरणोक्तिरनुचितेत्याशंक्य तेषामप्यन्यादृशमनादरणमस्ती त्याह, पूर्वेति ।

पूर्वापरपरामर्शविकलास्तत्र केचन ।
वाक्याभासान् स्वस्वपक्षे योजयन्त्यप्यलज्जया ॥ ५९ ॥

 तत्र तैर्थिकानां मध्ये केचन कणादकपिलभट्टादय आस्तिकदर्शनप्रवर्तकाः पूर्वापरपरामर्शविकलाः प्रमाणवाक्यानां पूर्वापसंदर्भविचारेणैकवाक्यताकल्पने विकला भग्ना अशक्ताः स्वस्वपक्षेऽलज्जया वाक्याभासान् योजयन्ति कल्प यन्ति ॥५९॥

 तत्र सर्वथा श्रुतिमनादृत्य श्रुतिरप्रमाणमेवेति वदतां मध्ये आदौ लोका यतिकानां मौर्ख्यं विशदयति, कूटस्थेति ।

कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः।
लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः ॥ ६० ॥

 लोकायताः लोके आयतो विस्तृतोऽनायाससाध्यत्वादिति लोकायतश्चार्वाकमतसिद्धान्तः, तदालंबिनोऽपि लोकायताश्चार्वाकाः केवलप्रयक्षप्रमाणवादिनः। पामरास्सामान्यतश्शास्त्रज्ञानविकलाश्च प्रत्यक्षाभासं प्रमाणवदाभासमानप्रत्यक्षमात्रं प्रमाणत्वेनाश्रिताः, कूटस्थादिशरीरान्तसंघातस्य यस्य कूटस्थ आदिश्शरीरनन्तः तस्य संघातस्य स्थूलदेहस्य “स्थूलोऽहं कृशोऽहमित्यादिप्रात्यक्षिकप्रतीतिबलादात्मतां जगुः । प्रत्यक्षेणानुभूयमानत्वात् स्थूलशरीरमेवात्मेति मन्यमानास्ते