पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१८६

पुटमेतत् सुपुष्टितम्
१६०
[चित्रदीप
पञ्चदशी

नास्तिकाः प्रत्यक्षमपि न सम्यग्विचारयन्ति । मरणानन्तरं स्थूलशरीरस्य सत्त्वेऽपि चैतन्यस्याभावाधवहृतेरदर्शनादिति भावः ॥६०॥

आत्मस्वरूपविषये विविधमतविचारः ।

 प्रत्यक्षाभासाश्रयेण प्रवर्तिते स्वमते "श्रुतिसिद्धमेव प्रमितं नान्यदिति" वादिनामङ्गीकारसंपादनायं श्रुत्यैकदेशं स्वार्थेऽविश्रान्तं किंचि च्छुत्रतिवाक्यं तेनास्तिका उदाजह्रुरित्याह, श्रौतीकर्तुमिमि ।

श्रौतीकर्तुं स्वपक्षं ते कोशमन्नमयं तथा ।
विरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे ॥ ६१ ॥

 ते लोकायतिकाः स्वपक्षं श्रौतीकर्तुं परप्रत्ययनाय श्रुतिसिद्धमिति प्रदर्शयितुमन्नमयं कोशं "स वा एष पुरुषोऽन्नरसमय" (तै.२.१) इति विरोचनस्यासुरराजस्य सिद्धान्त "मात्मैव देहमय'इत्येतद्रूपं प्रमाणं प्रतिजज्ञिरे । प्रमाणत्वेनाङ्गी- चक्रुरित्यर्थः ॥ ६१॥

 अस्मिन्मते दोषदर्शनवतामन्येषां मतमाह, जीवेति ।

जीवात्मनिर्गमे देहमरणस्यात्र दर्शनात् ।
देहातिरिक्त एवात्मेत्याहुर्लोकायताः परे ॥ ६२॥

 परे लोकायताः स्थूलदेहाज्जीवात्मनिर्गमे जीवात्मत्वेनाभिमतस्य जीवस्य निर्गमेऽत्र अन्नमयकोशरूपस्थूलदेहनाशरूपस्य देहमरणस्य दर्शनादात्मा देहाति- रिक्तः स्थूलदेहाद्भिन्न एवेत्याहुः ॥ ६२॥

 तेषां मते कीदृशोऽयमात्मेत्यत आह,प्रत्यक्षेति ।

प्रत्यक्षत्वेनाभिमताऽहंधीर्देहातिरेकिणम् ।
गमयेदिन्द्रियात्मानं वच्मीत्यादिप्रयोगतः ॥ ६३ ॥

 अहं वच्मीत्यादिप्रयोगतः प्रत्यक्षेणाभिमता अंगीकृताऽहंधीर्देहातिरेकिणं स्थूलदेहाद्भिन्नमिन्द्रियात्मानमिन्द्रियाण्येवात्मा तं गमयेत् ज्ञापयेत् ॥ ६३ ॥