वागादिषुचैतन्यस्याभावात्कथमात्मत्वमित्याशंक्य चैतन्यप्रदर्शनेन परि- हरति, वागादीनामिति ।
वागादीनामिंद्रियाणां कलहः श्रुतिषु श्रुतः। |
श्रुतिषु छांदोग्यबृहदारण्यकादिधूपनिषत्सु (छां, ५. १. वृ. ६. ७. वागादीनामिन्द्रयाणां कलहः चेतनसहजघर्मः श्रुतः तेन तेषां चैतन्यमस्तीति तत एव चैतन्यसत्वाद्देहात्मत्वं च सिध्यति : हीति निश्चयार्ये ॥ ६४ ॥
इन्द्रियाणामनात्मत्ववादिनां हैरण्यगर्भानां मतमाह, हैरण्येति ।
हैरण्यगर्भाः प्राणात्मवादिनस्त्वेवमूचिरे । |
स्पष्टोऽर्थः । अक्षार्णीद्रियाणि । प्राणस्य सत्वे ॥ ६५॥
प्राणस्यात्मत्वे श्रुतिः प्रमाणमित्याह, प्राण इति ।
प्राणो जागर्ति सुप्तेऽपि प्राणक्षैष्ठ्यादिकं श्रुतम् । |
सुप्तेऽपींद्रियाणीतराणि लयं गतानि प्राणस्तु जागर्ति । “प्राणादय एवै तस्मिन् पुरे जागर्ति ” (प्रक्ष्न. ४३. ) इति श्रुते । तत्प्राणे प्रपन्न उदतिष्ठत् तदुक्थमभवतदेतदुक्थम् प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च’ (छां. ५.१.१.) “यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठः” (छ. ५. १. ७.) इत्यादिभ्यः प्राणक्षैष्टयादिकं श्रुतम् । "अन्योऽन्तर आत्मा प्राणमयः (तै. २. २) इत्यादिना प्राणमयः कोशः सम्यविस्तरेण बहुधा प्रपञ्चितः । एवं प्राणस्यात्मत्वं निक्ष्चोयते ॥ ६६ ॥
अन्ये प्राणस्यात्मत्वे दाशना मनस आत्मत्वभावदयन्तात्याह, नम इति