पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९

पुटमेतत् सुपुष्टितम्

१५

रपि चिदाभासस्वरूपेण तथैव मायया निर्मितत्वं चेति सर्वंसिद्धान्तानामलंकारभूतमिदं परमरहस्यमस्मत्प्राचीनैरन्तर्मुखैर्महर्षिभिस्तत्त्वनिश्चयकामैः श्रुत्यर्थमननेन साक्षात्कारेण च प्रतिपाद्यते । आधुनिकैर्वस्तुशास्त्ररसवादशास्त्रकुशलिभिः पंण्डितैरप्ययमेवार्थो दृढीक्रियते । परमाणुसंघातात्मकं द्व्यणुकादिपरिकल्पितं सर्वं वस्तुजातं तच्चालनात्मिका तदतीता तदाश्रया काचिच्छक्तिरिति (matter and energy) च सर्वं जगत् द्विधा विभक्तमिति प्राचीनानां वस्तुशास्त्रवादिनां मतम् । आधुनिकास्तु सर्वं परमाणुस्वरूपं “अयान्” “प्रोटान्” नामकशक्तिघनानां परमाणोरपि सूक्ष्मतमानां संघात एवेति सनिदर्शनं निरूपयन्ति । चेतनात्मिका च शक्तिः । एवं सर्वं वस्तुजातं चेतनात्मकमित्यद्वैतवादः संपद्यते। शक्तितद्विशिष्टपदार्थनिमित्तको विभागोऽपास्तो भवति । न च प्राचीनशास्त्रज्ञै: प्रतिपादितश्चैतन्यसाहित्यराहित्यनिमित्तश्चेतनाचेतनविभाग आधुनिकैरंगीक्रियते । वृक्षादिषु चैतन्यप्रतीतिर्बोस्-महाशयेन विस्पष्टं सिद्धान्तिता। बुद्धिप्रतिबिंबितचिदाभानससत्वासत्त्वाभ्यां चेतनाचेतनविवेक इत्यद्वैतिनां मतम् । रसवादशास्त्रज्ञाः पूर्वेतनास्सर्वे पदार्थाः षण्णवतिसंख्याकानां पदार्थानामन्यतमानां सम्मिश्रणेन संजाता इत्यमंसत । आधुनिकास्तु सर्वपदार्थानां एकस्यैव पदार्थस्य मूलकारणत्वं तस्य प्रस्थानभेदतस्तेषामसंख्याकत्वं चोपपादयन्ति । एवमेव तेषां चिज्ज़डात्मकविभागः पूर्वपक्षतामाधुनिकैगैमितः । सर्वं वस्तुजातं मनः कल्पितमित्यधुनातना अभिप्रयन्ति । अयं सिद्धान्तोऽद्वैतिनां मायावादस्योपोद्बलकं भवति । विपुलोऽयं विषयो नात्र प्रपञ्चनमर्हति । आस्मीकेनैर्महर्षिभिः प्रज्वलितोऽद्वैतज्ञानदीपः पाश्चात्यविज्ञानेन संचालितः प्रकाशतेतमामिति च संतुष्यामः । सर्वे हि द्वैतवादा परस्परं विरुद्धार्थप्रतिपादकतया सुन्दोपसुन्दन्यायेन मिधो व्याहृन्यन्त इति न तेषां खण्डनापेक्षा। अथापि क्वचिदभ्युपगमवादेन निराकृतास्ते । अद्वैतवादस्तु सर्वेषामनभिमतोऽपि प्रमाणशतैरेकरूपतया भगवत्पादादिभिरैककण्ठ्येन प्रतिपादितोऽमृतह्रद इव रसघनो नितरामात्मानमात्मनैव मण्डयति ।

 येषां निरुपमकृपाविशेषेणामेयशिष्यवत्सलतया चांगीरससंवत्सराषाढासितद्वितीयामारभ्य हायनषट्कपर्यन्तं प्रस्थानत्रयश्रवणानन्तरमिमं ग्रन्थं विरच्य पाठकमहाशयानां पुरत उपस्थापनयोग्यता मे प्रसादिता तेषामस्मद्गुरुकुलावतंसानामानृण्यं