पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९२

पुटमेतत् सुपुष्टितम्
१६६
[चित्रदीप
पञ्चदशी


 एषोऽणुरणुपरिमाण आत्माऽणोरप्यणीयान् सूक्ष्मात् सूक्ष्मतरं त्विति चाणुत्वं शतशः सहस्त्रशः बह्वय: श्रुतयन् आहुः ।‘अणोरणीया” (श्वेत.३.२०.) “एषोऽणुरात्मा चेतसा वेदितव्यः” (मुं. ३.१.७) "अणीयान् व्रीहेर्यवाद्वा" (छां.३.१४.३.) ‘आराग्रमात्रो ह्यवरोपि दृष्टः” (श्वे. ५,८.) इत्याद्याः श्रुतयः ॥ ८०॥

 तत्र श्वेताश्वतरश्रुतिमुदाहरति, वालाग्रेति ।

वालग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवस्य विज्ञेय इति । चाहापरा श्रुतिः ।। ८१ ।।

 शतधाकल्पितस्य वालाग्रशतभागस्य वालस्य रोम्णो यदग्रं तच्छतभागस्य योऽन्यतमो भागस्तद्वदतिसूक्ष्मो जीव इति विज्ञेय इत्यपराहुतिराह ॥ ८१॥

 मध्यमपरिमाणवादिनां श्रुतियुक्तिपूर्वकं वादमुत्थापयति, दिगंबरा इति ।

दिगंबरा मध्यमत्वमाहुरापादमस्तकम् ।
चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि ॥ ८२ ॥

 दिगंबरा आत्मनो मध्यमत्वं मध्यमपरिमाणतामाहुः । तत्रोपपत्तिमाह, आपादेति । आपादमस्तकं पादादिशिरःपर्यन्तं सर्वत्र चैतन्यव्याप्तिसदृष्टेः चैतन्यस्य व्यातेः संदशनात् । तत्र श्रुतिप्रामाण्यमाह, आनखेति । “स एष इह प्रविष्ट आनखाग्रेभ्य" (बृ. १.४.७) इति श्रुतेः ॥८२॥

 नन्वात्मनो मध्यमपरिमाणत्वे कथं सुप्रसिद्धसूक्ष्मनाडीप्रचारः संपद्यत इत्यत आह, सूक्ष्मेति ।

सूक्ष्मनाडीप्रचारस्तु सूक्ष्मादवयवैर्भवेत् ।
स्थूलदेहस्य हस्ताभ्यां कंचुकप्रतिमोकवत् ॥ ८३ ॥

 स्पष्टः पूर्वाधः । तत्र दृष्टान्तमाह, स्थूलेति । अवयवभूताभ्यां हस्ताभ्यां तद्द्वारेत्यर्थः स्थूलदेहस्य कंचुकप्रतिमोकवत् कंचुकप्रवेश इव, अवयवभूतयोर्हस्तयोः