पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१६७
कल्याणपीयूषव्याख्यासमेता


कंचुकप्रवेशेन देहस्य यथा कंचुकप्रवेशस्तथा, सूक्ष्माणामात्मावयवानां सूक्ष्मनाडीप्रवेशेनात्मनोऽपि नाडीप्रवेश उपपद्यत इति भावः ॥ ८३ ॥

 तस्य चात्मनः संकोचविकोचशालित्वेन न किंचिन्नियतं परिमाणम् । किं त्वणुत्वमहत्वव्यावृत्तमनियतं परिमाणमस्तीति दर्शयति, न्यूनेति ।

न्यूनाधिकशरीरेषु प्रवेशोऽपि गमागमैः ।
आत्मांशानां भवेत्तेन मध्यमत्वं विनिश्चितम् ।। ८४ ।।

 न्यूनाधिकशरीरेषु हस्तिमशकाद्यल्पशरीरेष्वात्मांशानां गमागमरूपचयाप- चयाभ्यां गमनागमनैः प्रेवेशा भवेत् । तेन मध्यमत्वमात्मनो विनिश्चितम् ॥८४॥

 आत्मन उपचयापचयौ सावयवत्वमन्तरा न सिध्यतः । नाशस्यावयव व्यापकत्वात्तस्य नाशोऽवश्यंभावीत्यनित्यत्वं प्रसज्येतेत्याह, सांशस्येति ।

सांशस्य घटवन्नाशो भवत्येव तथा सति ।
कृतनाशाकृताभ्यागमयोः को वारको भवेत् ॥ ८५ ॥

 सांशस्य सावयवस्यात्मनो घटवन्नाशो भवति । एवेति निश्चयार्थे । तत्रेष्टापत्तिः कर्तुमशक्येत्याह, तथेति । तथा सति, देहेन सहात्मनोऽपि नाशे, कृतनाशाकृताभ्यागमयोः कृतस्य पुण्यपापरूपस्य कर्मणः फलस्य भोगमन्तरेण नाशः,अकृताभ्यागमोऽकृतस्य पुण्यपापादिभिरकृतस्याकस्मिकस्यागमश्चेत्येतयोर्दोषयो र्वारको निवारकः को भवेत् । एतजन्मन्याचरितयोः पुण्यपापफलयोः फलानुभव निमित्तमन्यज्जन्म न स्यात्, तदात्मनो भिन्नत्वात्, एतज्जन्मन्यनुभूयमानस्य फलस्याकस्मिकत्वं च प्रसज्ज्येत । न चैतत्फलस्य कारणं पूर्वजन्मकृतं भवति । तदात्मनोऽपि भिन्नत्वात् । नह्यन्येन कृतमन्येनानुभूयते ॥ ८५ ॥

 पारिशेष्यान्महत्वं स्थापयति, तस्मादिति ।

तस्मादात्मा महानेव नैवाणुर्नापि मध्यमः ।
आकाशवत्सर्वगतो निरंशः श्रुतिसम्मतः ॥ ८६ ॥