पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१६९
कल्याणपीयूषव्याख्यासमेता


 स्पष्टः पूर्वार्धः। तत्संस्कारा अनुभूतार्थविषयकसंस्कारा भावनाख्याः८९॥

 एतेषां गुणानामुत्पत्तिविनाशयोः कारणमाह, आत्मन इति ।

आत्मनो मनसा योगे स्वादृष्टवशतो गुणाः ।
जायन्तेऽथ प्रलीयन्ते सुषुप्तेऽदृष्टसंक्षयात् ॥९०॥

 स्वादृष्टवशतः पूर्वजन्मकृतकर्मजन्यधर्माधर्मवशात् आत्मनो मनसा सह योगे जाने सति, गुणा जायन्ते । अथ सुषुप्तेऽदृष्टसंक्षयात् अदृष्टस्य कालविशेषेण फलजनननियमात् तत्कालस्य सुषुप्तावभावत्, ते प्रलीयन्ते लयं यान्ति ॥ ९० ॥

 नन्वात्मनोऽप्याकाशवज्जडात्मकता स्यादित्याशंक्याह, चितीति ।

चितिमत्त्वाच्चेतनोऽयमिच्छाद्वेषप्रयत्नवान् ।
स्याद्धर्माधर्मयोः कर्ता भोक्ता दुःखादिमत्त्वतः ॥ ९१ ॥

 अयमात्मा चेतनश्चितिमत्त्वात् । तत्र हेत्वसिद्धेिं तत्कार्यप्रदर्शनेन परिहरति, इच्छेति । अयमात्मा इच्छाद्वेषप्रयत्नवान्। ततो धर्माधर्मयोः कर्ता स्यात्। दुःखादिमत्वतः धर्माधर्मजन्यसुखदुःखादिमान् भवति । तद्भावातेषां भोक्ता च भवति । एतेनेच्छाद्वेषप्रयत्नधर्माधर्मसुखदुःखानां सामानाधिकरण्यलाभा- त्तेषां सर्वेषामप्येक आश्रय इयुक्तं भवति || ९१ ॥

 आत्मनो नित्यत्वे सर्वगतत्वे च धर्माधर्मयोस्सत्वे सर्वदा सर्वत्र सुखाद्यनुभवः स्यादित्याशंक्याह, यथेति ।

यथाऽत्र कर्मवशतः कादाचित्कं सुखादिकम् ।
तथा लोकान्तरे देहे कर्मणेच्छादि जन्यते ॥ ९२ ॥

 कर्मवशतः कर्मबलाज्जायमानं सुखदुःखादिकमत्रास्मिन् देहे देहावच्छेदेन कादाचित्कं कालविशेषस्थं तत्तत्कालावच्छेदेन यथाऽनुभूयते न सर्वत्र न सर्वदा, तथा लोकान्तरे देहे तत्स्थदेहे तद्देहावच्छेदेन तत्तत्कालावच्छेदेन चेच्छादि कर्मणा जन्यते । आदिशब्देन फलपर्यन्तं द्वेषादयो गृह्यन्ते । अयं भावः । कर्मणः

22