पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९७

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१७१
कल्याणपीयूषव्याख्यासमेता


पूर्वोक्ताज्ञानद्वेषादयः कर्तृत्वादिकं च गुणा भवन्ति । अत्रायं भावः । विज्ञानमय आनन्दमयश्चेत्येकमेव तत्त्वम् । तस्य यदा मनसा योगस्तदेच्छादिगुणा: प्रतीयन्ते । तद्गुणसंबंधे सत्येव विज्ञानमयत्वेष व्यवहारः। यदा मनसा योगा नास्ति, तदा सुषुप्त्यवस्थायां गुणानां प्रलये सति, यो गुणविनिर्मुक्त इवात एवास्पष्टचिदवशिष्यते स एवानन्दमयकोशः ।मनोयोगायोगाभ्यां विज्ञानानन्दमययोर्बाह्यान्तरे इच्छादि गुणसद्भावो न विरुध्यते । आनन्दमये गुणानां सत्त्वेप्यस्पष्टचित्कतया ते गुणा न प्रतीयन्ते । तदानीमप्रतीतिरेव तेषां लयः । एवं चानन्दमयस्य यदुक्तमिच्छादिगुण- कत्वं तन्नामपपन्नमिति ॥ ९४ ॥

 केवलजडात्मवादविमुखानां भाट्टानां मतमाह, गूढमिति ।

गूढं चैतन्यमुत्प्रेक्ष्य जडबोधस्वरूपताम् ।
आत्मनो ब्रुवते भाट्टाश्चिदुत्प्रेक्षोत्थितस्मृतेः ॥ ९५॥

 भाट्टा: प्रभाकरगुरुर्भाट्ट: तस्यानुयायिनः पूर्वमीमांसका आत्मनो गूढमस्पष्टं चैतन्यमुत्प्रेक्ष्य तस्य जडबोंधस्वरूपतां जडस्वरूपत्वज्ञानस्वरूपत्वं च ब्रुवते वर्णयन्ति । आत्मनो निगूढचैतन्यस्योत्प्रेक्षायां लिंगमाह, चिदिति । उत्थितस्मृतेः सुषुप्त्यनन्तरमुस्थितस्य स्मृतेरुत्थानात्प्रागनुभूतविषयस्मरणरूपज्ञानाच्चिदुत्प्रेक्षा भवति। स्मरणस्यानुभवपूर्वकत्वात्, सुषुप्तिकालेऽप्यनुभवरूपायाश्चित उत्प्रेक्षा अनुमितिः । चितं विना स्मृतेरसंभवात्सौषुप्तिकस्मृतेश्चानुभवसिद्धत्वात्सुषुप्तौ चित्सताऽवश्यमूह नीयेति भावः ॥ ९५ ॥

 एवं स्मृतिबलात्सुप्तस्य चिद्रूपतामनुमाय जडरूपत्वमप्यनुमानेन साधयति, जड इति ।

जडो भूत्वा तदाऽस्वाप्समिति जाड्यस्मृतिस्तथा ।
विना जाड्यानुभूतिं न कथंचिदुपपद्यते ॥ ९६ ॥

 तदा सुषुप्तिसमये जडो भूत्वा किंचिदप्यविज्ञाय अस्वाप्समिति जाड्यस्मृतिस्सुषुप्तिसमयेऽनुभूतस्य जाड्यस्याज्ञानस्य स्मृतिः तदा सुषुप्तिसमये विना जाड्यानु