पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१९९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१७३
कल्याणपीयूषव्याख्यासमेता

जाड्यांशः प्रकृते रूपं विकारित्रिगुणं च तत् ।
चितो भोगापवर्गार्थं प्रकृतिस्सा प्रत्रर्तते ॥ ९९॥

 आत्मनो जड्यांश आत्मनि भासमानो जाड्यमागो नात्मनः किंतु प्रकृतेः रूपम् । प्रकृतिकृतविकार इत्यर्थः । सत्त्वरजस्तमसां साम्यावस्थारूपमेव प्रकृतिः । सैव सांख्यैः प्रधानमित्युच्यते । तच्च महदादिकार्यकलापकरणं, न त्वस्य प्रधानस्य मूलान्तरमस्तीति सांख्यसमयः तदुपं त्रिगुणं सत्वरजस्तमोगुणात्मकम् । विकारि च । प्रकृतेः कल्पनायां प्रयोजनमहचिदिति । चितश्चैतन्यस्वरूपस्यात्मनो भोगापवर्गार्थं कर्मफलस्य भोगो मोक्षश्च। तदर्थं सा प्रकृतिः प्रवर्तते । एवं च प्रकृतिजन्यो भोगोऽविविक्ते आत्मनीव तन्निष्ठजाड्यमपि तत्र प्रतीयते,स्फटिकलौहित्यवादिति भावः । एवं च प्रातीतिकमेवाविरोधमनुमानादि साधयितुमीष्टे न वास्तविकमिति भावः ॥ ९९ ॥

 नन्वसंगस्यात्मनो भोगापवर्गौ प्रकृतिः कथं कल्पयतीत्यत आह, असंगाया इति ।

असंगयाश्चितेर्वधमोक्षौ भेदाग्रहान्मतौ ।
बंधमुक्तिव्यवस्थार्थं पूर्वेषामिव चिद्भिदा ॥ १०० ॥

 असंगायाः संगरहितायाश्चितेर्बधमोक्षौ भेदाग्रहात्प्रकृतिपुरुषयोर्भेदस्याग्रहणास्मृतावंगीकृतौ । बंधमुक्तिब्यवस्थार्थं वंधमुक्त्योनियमनार्थं पूर्वेषामिव नैयायिकानामिव चिदात्मनो नानात्वमिष्यते । नैय्यायिका इव सांख्या अप्यात्मनानात्व मंगीकुर्वन्तीति भावः ॥ १०० ॥

 प्रकृतेस्सद्भावे पुरुषस्यासंगत्वे च श्रुतिप्रामाण्यमाह, महत इति ।

महतः परमव्यक्तमिति प्रकृतिरुच्यते । ।
श्रुतावसंगता तद्वदसंगो हीत्यतिस्फुटा ॥ १०१ ॥

 महतो महतत्वात् परं भिन्नमव्यक्तमिन्द्रियावेद्यमिति श्रुतौ योगरूढ्या प्रकृतिरुच्यते । तद्वत्, “असंगो हीति, श्रुतौ पुरुषस्यासंगता चातिस्फुटा ।”