स्यात्, न तु केषांचिद्वद्धता, केषांचिन्मुक्ततेति व्यवस्था स्यात्, अतस्तद्यवस्थापकः कश्चिदेतेभ्योऽतिशयितः पुरुषो लोकानामसंभेदायाङ्गीकार्यः।स एवेश्वर इति तात्पर्यम् ।। १०६ ॥
तत्र क्लेशादिराहित्ये नियन्तृत्वेन श्रुतिमुदाहरति, भीषेति ।
भीषास्मादित्येवमादावसंगस्य परात्मनः । |
भीषास्मादित्येवमादौ “ भीषास्माद्वातः पवते” (तै.२.५) इत्यादिश्रुतिष्वसंगस्य संगरहितस्य परात्मनस्तन्नियन्तृवं श्रुतम् । क्लेशकर्माद्यसंगमात् अस्य तन्नियन्तृत्वं युक्तमपि स्यात् ॥ १०७॥
ननु जीवानामाप्यसंगत्वेन क्लेशादिराहित्याभावात् तत्कृतविशेषस्त्वेतेषामप्यविशिष्ट इत्याशंक्याह, जीवानामिति ।
जीवानामप्यसंगत्वात् क्लेशादिर्न ह्यथापि च । |
जीवानामप्यसंगत्वात् क्लेशादिः न विद्यते हि । अथापि विवेकाग्रहतः प्रकृतिपुरुषयोर्विवेकस्य भेदस्य बुद्ध्या ग्रहणाभावात्, क्लेशकर्मादि प्राक् पंचोत्तर- शततमे श्लोके उदीरितं प्रतिपादितम् । एवं च वस्तुतो जीवानामपि क्लेशकर्मादि- राहित्यसाम्येऽपि विवेकाग्रहेणोपाधिकृतक्लेशकर्मादिमत्वं जीवानाम्, ईश्वरस्य तु तादृशमपि नास्ति । तस्य विवेकाग्रहाभावात् । तदेव तत्र विशिष्टतानियामकमिति भावः ॥ १०८ ॥
सांख्ययोगमतानन्तरमीश्वरस्य सर्वनियन्तृत्वे नैयायिकाभिप्रायमाह,नित्येति ।
नित्यज्ञानप्रयत्नच्छागुणानीशस्य मन्वते । |