पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०४

पुटमेतत् सुपुष्टितम्
१७८
[चित्रदीप
पञ्चदशी

 तस्य हिरण्यगर्भस्य माहात्म्यमुद्गीथब्राह्मणे छांदोग्यान्तर्गते प्रथमाध्याये षष्ठखंडे “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः” (छां १. ६. ६) इत्यतिविस्तृतं प्रपञ्चितम्। तस्यापि लिंगसत्वे जीवादविशेष इति कथं तस्येशत्वमुच्यत? इत्यत आह, लिंगेति।लिंगसत्वेऽपि सूक्ष्मस्य विद्यमानत्वेऽपि कर्माद्यभावतःआदिशब्देनाविद्यकामा- दयो गृह्यन्ते । अविद्याकामकर्मादीनामभावेनेत्यर्थः । अस्य जीवत्वं न, कर्मादि मत्त्वमेव जीवत्वप्रयोजकं न लिंगवत्वमिति भावः ॥ ११२ ॥

 हिरण्यगर्भमतदोषदृशां विराडुपासकानां मतमाह, स्थूलेति ।

स्थूलदेहं विना लिंगदेहो न क्वापि दृश्यते ।
वैराजो देह ईशोऽतः सर्वतो मस्तकादिमान् ॥ ११३॥

 स्पष्टः पूर्वार्धः। सदा लिंगदेहस्य स्थूलदेहाश्रितत्वात् । अतः सर्वतों मस्तकादिमान् शिरश्चक्षुःपाण्यादिमान् वैराजो देहः विराट्पुरुषसंबंधी देहः ईशः ॥ ११३ ॥

 वैराजानां प्रमाणवाक्यमुदाहरति, सहस्रेति।

सहस्रशीर्षेत्येवम् च विश्वतश्चक्षुरित्यपि ।
श्रुतमित्याहुरनिशं विश्वरूपस्य चिन्तकाः ॥ ११४ ॥

 स्पष्टोऽर्थः ।।११४ ॥

 तन्मतं दोषाविष्टमिति पश्यतां पुत्रार्थिनां मतमाह, सर्वत इति ।

सर्वतः पाणिपादत्वे कृम्यादेरपीशता ।
ततश्चतुर्मुखो देव एवेशो नेतरः पुमान् ॥ ११५॥

 स्पष्टोऽथः ॥ ११५ ॥

 तेषां प्रमाणमाह, पुत्रार्थमिति ।

पुत्रार्थं तमुपासीना एवमाहुः प्रजापतिः ।
प्रजा असृजतेत्यादि श्रतिं चोदाहरन्त्यमी ॥ ११६ ॥