पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०५

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१७९
कल्याणपीयूषव्याख्यासमेता

 स्पष्टोऽर्थः । "प्रजापतिः प्रजा असृजत” प्रजाकामो वै प्रजापतिस्स तपोऽ तप्यत” (प्र.१.४.) इति श्रुतिम् ॥ ११६॥

 भागवतमतमाह, विष्णोरिति ।

विष्णोर्नाभेः समुद्भूतो वेधाः कमलजस्ततः ।।
विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥ ११७ ॥

 स्पष्टोऽर्थः ॥ ११७॥

 शैवानां मतमाह, शिवस्येति ।

शिवस्य पादावन्वेष्टुम् शार्ङ्न्यशक्तस्ततश्शिवः ।
ईशो न विष्णुरित्याहुः शैवा आगममानिनः ॥ ११८ ॥

 स्पष्टोऽर्थः । अत्र देवोभागवते (५.३३.३०.) कथानुसंधेया ॥ ११८॥

 गाणपत्यमतमाह, पुरेति ।

पुरत्रयं साधयितुं विघ्नेशं सोऽप्यपूजयत् ।
विनायकं प्राहुरीशं गणपत्यमते रता: ॥ ११९ ॥

 स्पष्टोऽर्थः । अत्र गणपतिपुराणगाथानुसंधेया ॥ ११९ ॥

 एवमन्यदेवतोपासाकनां तत्तभिमतमतानां यथाकथंचिच्छ्रौतत्वसंपादन प्रकारमाह, एवमिति ।

एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा ।
मन्त्रार्थवादकल्पादीनाश्रित्य प्रतिपेदिरे ॥ १२० ॥

 एवमन्ये मैरवोपासकाद्याः स्वस्वपक्षाभिमानेनान्यथान्यथा बहुप्रकारैः स्वस्वोपास्यदेवतानुसारेण मन्त्रार्थवादकल्पादीन् अर्थवादाः तत्तद्देवतास्तोत्रपराः कल्पा: स्थलपुराणानि । तदादीनाश्रित्य स्वाभिमतदेवताया ईश्वरत्वं प्रतिपेदिरे कल्पयन्ति। स्वमतस्य श्रौतीचिकीर्षया मन्त्रार्थवादादीन् प्रमाणयन्तीति भावः॥१२०॥