पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२०८

पुटमेतत् सुपुष्टितम्
१८२
[चित्रदीप
पञ्चदशी

 अचिदात्मघटादीनामचेतनानां घटादीनां यत्स्वरूपं विद्यते तज्जडमित्युच्यते हि। यत्र यद्विषयग्रहणे बुद्धिः कुंठीभवेत् उपलेऽसिरिवापगतनिशितस्वभावा भवति स मोह इति लौकिका लोकव्यवहारपराः शास्त्रभावानभिज्ञ ब्रुवन्ति ॥ १२७ ॥

 अद्य मायायाश्शास्त्रनिरूपितं स्वरूपमाह, इत्थमिति ।

इत्थं लैौकिकदृष्ट्यैतत्सर्वैरप्यनुभूयते ।
युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदिति श्रुतेः ॥१२८॥

 इत्थमुक्तप्रकारेणैतज्जडमोहात्मकं तमः तद्रूपा मायेत्यर्थः सर्वैर्लौकिकदृष्ट्या अचुंबितशास्त्रदृष्ट्यानुभूयते । वस्तुतस्तत्स्वरूपं दुर्निरूपमेवेत्याह, युक्तिदृष्त्येति। नासदासीदिति श्रुतेर्युक्तिदृष्ट्या सहेतुकपरामर्शनाप्यनिर्वाच्यं सत्यमिति वा असत्यमिति वा वक्तुमशक्यमित्यर्थः ॥१२८ ॥

 निरुक्तश्रुतिमर्थतः पठति, नासदिति ।

नासदासीद्विभातत्वान्नो सदासीच्च बाधनात् ।
विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः ।। १२९ ॥

 तमोरूपिणी माया विभातत्वात्प्रत्यक्षतया प्रतीयमानत्वादसदभावरूपिणी नासीत् नाभवत् । “नेह नानास्ति किंचने’ (कठ. २.४.११)ति श्रुत्यनुप्राणितया “नो सदासीदि"ति (तै. ब्रा. २.८.९.३.श्रुत्या बाधनान्निषिद्धत्वात्सत् भावरूपिण्यपि नो आसीन्नाभवत् । भावाभावभिन्नम् न कदापि युक्तिसिद्धम् । एवं मायाया अनिर्वचनीयत्वं युक्त्यनुरूपम् प्रदर्श्य तस्यास्तुच्छत्वं प्रदर्शयति, विद्येति । नित्यनिवृत्तितः निरन्तरं ज्ञानेन निवारितत्वाद्विद्यादृष्ट्या ज्ञानदृशा मायास्वरूपं तुच्छमलीकं शशविषाणवदिति “तुच्छमिदं रूपमस्ये"ति श्रुतौ श्रुतम् ॥ १२९॥

 एवं मायायास्त्रिप्रकारत्वमाह, तुच्छेति ।

तुच्छाऽनिर्वचनीया च वास्तवी चेत्यसौ त्रिधा ।
ज्ञेया माया त्रिभिर्बोधै: श्रौतयौक्तिकलौकिकैः ।। १३० ॥