पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१०

पुटमेतत् सुपुष्टितम्
१८४
[चित्रदीप
पञ्चदशी

 ननु कूटस्थस्य जगत्वेन करणे कूटस्थत्वहानिः स्यादित्यत आह, कूटस्थेति ।

कूटस्थमनुपद्रुत्य करोति जगदादिकम् ।
दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः ॥ १३४॥

 कूटस्थमनुपदृत्य अबाधित्वा तत्र विकारमसंपाद्येत्यर्थः । जगदादिकं तस्मिन् करोति कल्पयति यथा रज्जुस्वरूयमबाधित्वा सर्पम् । कुटस्थस्य भंगाभावे ऽन्यरूपेण प्रतीतिसंभवः कथमित्याशंक्याह, दुर्घटेति । दुर्घटैकविधायिन्यां अघटितघटनामात्रफलिकायामिति भावः । मायायां का चमत्कृतिः न किमप्याश्चर्यमित्यर्थः ॥ १३४ ॥

 दुर्घटैकविधायित्वं तस्यास्सहज़मित्याह, द्रवत्वमिति ।

द्रवत्वमुदके वह्नावौष्ण्यं काठिन्यमश्मनि ।
मायाया दुर्घटत्वं च स्वतस्सिध्यति नान्यतः ॥ १३५ ॥

 स्पष्टोऽर्थः । एते गुणास्तत्तद्वस्तुषु स्वतः सिद्धा नान्यवस्तुकल्पिता इति भावः ॥ १३५॥

 यथार्थज्ञानावधिर्मायायाश्चमत्कार इत्याह, नेति ।

न वेत्ति लोको यावत्तां साक्षात्तावच्चमत्कृतिम् ।
धत्ते मनसि पश्चात्तु मायैषेत्युपशाम्यति ॥ १३६ ॥

 लोकस्तां मायां यावत्कालं साक्षात्प्रत्यक्षतो न वेत्ति तावत्कालं तां चमत्कृतिं मनसि धत्ते । पश्चात् विज्ञाय एषा चमत्कृतिर्मायेति मायाकल्पितेत्युपशाम्यति ॥ १३६ ॥

 एवं मायायाः स्वरूपादिकं युक्त्या निरूप्य वस्तुतस्तान्निरूपणं नावश्यक मित्याह, प्रसरन्तीति ।

प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु ।
न चोदनीयं मायायां तस्याश्चेद्यैकरूपतः ॥ १३७ ॥