पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२११

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१८५
कल्याणपीयूषव्याख्यासमेता

 जगद्वस्तुत्ववादिषु जगतो वस्तुत्वस्य सत्यत्वस्य वादिषु नैयायिकादिषु चोद्यानि "इदं किंस्वरूपं ? किं कार्यकम् ? कथं घटेते ?” त्याद्याक्षेपाः प्रसरन्ति । तत्त्वतो मायायां चोदनीयं शंकनीयं न विद्यते । कुतः? तस्याश्चोद्यैकरूपतः चोद्यमेवैकं केवलं रूपमित्यतो मुख्यस्वरूपत्वात् ॥१३७॥

 तद्विषये चोद्यं तव न घटत इत्याह, चोद्येपि ।

चोद्येऽपि यदैि चोद्यं स्यात्तच्चोद्ये चोद्यते मया।
परिहार्यं ततश्चोद्यम् न पुनः प्रतिचोद्यताम् ॥ १३८ ॥

 चोद्येऽपि चोद्यरूपेऽपि । चोद्यमाक्षेपो यदि स्यात्त्वच्चोद्ये तवाक्षेपे मया चोद्यते आक्षिप्यते । ततो मदाक्षेपानन्तरं चोद्यं मदीयाक्षेपः परिहार्ये निरसनीयः, पुनर्न प्रतिचोद्यतां । पुनराक्षेपोपर्याक्षेपो न कार्यः । आक्षेपार्हे वस्तुनि कृतो य आक्षेपः स पुनः प्रत्याक्षेपम् नार्हतीति भावः ।। १३८ ॥

 सर्वेषामपि चोद्यानां मायारूपतया चोद्यपरिहारे, प्रयतमानाः सर्वेऽप्यस्मत्पक्षान्तःपातिन एव भवन्तीति साकूतमाह, विस्मयेति ।

विस्मयैकशरीराया मायायाश्चोद्यरूपतः।
अन्वेष्यः परिहारोऽस्या बुद्धिमद्भिः प्रयत्नतः ॥ १३९ ॥

 चोद्यरूपत: चोद्यस्वरूपतया विस्मयैकशरीरायाः । आश्चर्यमात्रस्वरूपाया अस्या मायायाः परिहारः प्रतिकृतिरेव बुद्धिमद्भिः प्रयत्नतोऽन्वेष्यः । तदन्वेषणमेवास्माभिः क्रियते यदि भवन्तोऽपि बुद्धिमन्तस्तदा तदन्वेषणमार्गमवलम्ब्य मत्पक्षेऽन्तर्भावमभिलषन्त्विति सोत्प्रासोक्तिरियम् ॥ १३९ ॥

 मायास्वरूपे सिद्धे तत्परिहारोऽस्वेष्टुं शक्यः । तदेव न सिद्धम् । कथं परिहारान्वेषणमित्याशंक्याह, मायात्वमिति ।

मायात्वमेव निश्चेयमिति चेत्तर्हि निश्चुनु ।
लोकप्रसिद्धमायाया लक्षणं यत्तदीक्ष्यताम् ॥ १४० ॥

24