पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१३

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
१८७
कल्याणपीयूषव्याख्यासमेता

 प्रथमतो जगन्निरूपणप्रस्तावे स्वभाववादिना ज्ञानमम्गीकारयत्युपसंहारे, वीर्यस्येति ।

वीर्यस्यैष स्वभावश्चेत्कथं तद्विदितं त्वया ।
अन्वयव्यतिरेकौ यौ भग्नौ तौ वन्थ्यवीर्यतः ॥१४५॥

न जानामि किमप्येतदित्यंते शरणं तव ।
अत एव महान्तोऽस्य प्रवदन्तीन्द्रजालताम् ॥ १४६ ॥

 एष देहेन्द्रियोत्पादनं वीर्यस्य स्वभाव इति वदसि चेत्तत्त्वया कथं विदितम् ? अनुमानेनेति यदि ब्रूषे, तर्हि तस्य दुष्टतेत्याह, अन्वयेति । तत्र व्यतिरेकभंगस्य स्वेदजेषु गोमयवृश्चिकादिषु च बहुशो दृष्टत्वात्तमपहायान्वयभंगम् दर्शयति, वंथ्यवीर्यत इति । व्याप्तिसाधकौ यावन्वयव्यतिरेकौ तौ भग्नौ वन्थ्यवीर्यतो, मोघवीर्यसद्भावात् । एवं चाप्यन्वयोऽपि नास्ति । एवं प्रचलिते विवादेऽन्ते किमपि न जानामीत्युत्तरमेव तव शरणम् । अत एव अनिरूप्यत्वादेव महान्तो मुनयोऽस्य जगत इन्द्रजालतामिन्द्रजालप्रायतां प्रवदन्ति । केवलयुक्तिवादातीताः काश्चित्कक्षा विद्यन्ते आध्यात्मिकविषया येऽतीतमानुषशेमुषीविषया इति भावः ।। १४५-१४६॥

 उक्तार्थे प्राचामङ्गीकारं दर्शयति, एतस्मादिति ।

एतस्मात्किमिवेन्द्रजालमपरं यद्गर्भवासस्थितम् ।
रेतश्चेतति हस्तमस्तकपदप्रोद्भूतनानांकुरम् ।
पर्यायेण शिशुत्वयौवनजरावेषैरनेकैर्वृतम् ।
पश्यत्यत्ति शृणोति जिघ्रति तथा गच्छत्यथागच्छति ॥१४७॥

 एतस्माद्वक्ष्यमाणाच्चोद्यादपरमिन्द्रजालं किमिव ? न किमपीत्यर्थः । किं तच्चोद्यतममिन्द्रजालम् ? यद्गर्भवासस्थितं, वासो निवासस्थानं, तत्र स्थितं रेतो हस्तमस्तकपदप्रोद्भूतनानांकुरम् हतमस्तकरूपेणोत्पन्नं बहुविधाङ्गुरम् यस्य तत् ।