विव मेघान्तर्गतजलप्रतिबिंबितोऽस्पष्टाकाशो मेघाकाशः, घटोदकप्रतिबिंबितः स्पष्टाकाशो जलाकाशः, ताविव सुव्यवस्थितौ अस्पष्टोपाधिभेदेन व्यवस्थितौ॥१५५
ईश्वरस्य मेंघाकाशसाम्यं स्पष्टयति, मेघ इति ।
मेघवद्वर्तते माया मेघस्थिततुषारवत् । |
माया मेघवद्वर्तते । एवं च तत्प्रतिबिंबिताकाशसदृशो मायागतचित्प्रति- बिंबरूप ईश्वरः । एवं चेश्वरस्य मायोपाधिरिति फलितम् । धीवासना संस्कारा मेघस्थिततुषारवद्वर्तन्ते । जीवस्य तुषाकारसाम्यं स्फुटयति, तुषारेति । चिदाभासस्तुषारस्थखवत् मेघगततुषारस्थिताकाशवत् स्थितः । अत्राऽयं निर्गःलितोऽर्थः । तुषाराणां मेघस्थत्वोक्तया धीवासनानां जीवोपाधिभूतानां मायैकदेशवृत्तित्वं सूचितम् । जीवरूपचिदाभासस्य तुषारप्रतिबिंबितखसादृश्योक्त्या तदुपाधीनां धीवासनानामल्पत्वं सूचितम् । एवं चाभाससाम्येऽप्यल्पोपाधिको जीवोऽधिकोपाधिक ईश्वर इति तयोरौपाधिको भेदस्युव्यवस्थित इति ॥१५६॥<r>
ईशस्य मायोपाधिकत्वे प्रमाणमाह, मायेति ।
मायाधीनश्चिदाभासः श्रुतो मायी महेश्वरः । |
मायाधीनो मायोपाधिकश्चिदाभासः श्रुतौ मायी महेश्वर इति श्रुतः। “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं ’ (श्वेत,४. १०) इति श्रुतिः । एवं च मायोपाधिचिदाभासस्येश्वरत्वम् सिद्धम्। स एवेश्वररूपश्चिदाभासोऽन्तर्यामी प्रत्यगात्मा सर्वज्ञो जगद्योनिरिति हि श्रुतः ॥ १५७ ॥
वासनाप्रतिबिंबितचिदाभासस्य तद्व्यापकमायाप्रतिबिंबिताचिदाभासान- तिरिक्ततयाऽऽनंदमयकोशस्येश्वरत्वादिकं श्रुतिः प्रतिपादयतीत्याशयेनाह, सौषुप्तिमिति ।