पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२१९

पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
१९३
कल्याणपीयूषव्याख्यासमेता

अयं यत्सृजते विश्वं तदन्यथयितुं पुमान् ।।
न कोऽपि शक्तस्तेनायं सर्वेश्वर इतीरितः ॥ १६० ॥

 स्पष्टोऽर्थः । अन्यथयितुं अन्यथा कर्तुम् ॥ १३९ ॥

ईश्वरस्य सर्वज्ञत्वविचारः

 सर्वेश्वरत्वमुपपाद्य तस्य सर्वज्ञत्वमुपपादयति, अशेषेति ।

अशेषप्राणिबुद्धीनां वासनास्तत्र संस्थिताः ।
ताभिः क्रोडीकृतं सर्वं तेन सर्वज्ञ ईरितः ।। १६१ ॥ ।

 अशेषप्राणिबुद्धीनां वासनास्संस्कारास्तत्र सौषुप्तिकाज्ञाने संस्थिताः ।। ताभिर्वासनाभिस्सर्वे क्रोडीकृतं विषयोकृतं भवति । तेन सर्वज्ञ इतीरितः । अशेष- प्राणिबुद्धिवासनाविशिष्टमायोपाधिक्यात्स सर्वे जनातीति सर्वज्ञ इति भावः ॥१६१॥

 आनन्दमये सर्वज्ञत्वस्याप्रत्यक्षत्वे कारणमाह, वासनानामिति ।

वासनानां परोक्षत्वात्सर्वज्ञत्वं न हीक्ष्यते ।
सर्वबुद्धिषु तद्दृष्ट्वा वासनास्वनुमीयताम् ।। १६२ ॥

 बुद्धेर्वासनानां संस्काराणां परोक्षत्वादानन्दमये सर्वज्ञत्वं न हीक्ष्यते न प्रत्यक्षीक्रियते। कथम् तर्हि तस्यावस्थितिनिश्चीयत इत्यत आह, सर्वेति । सर्व बुद्धिषु तत्सर्वज्ञत्वं समष्ट्या विद्यमानं दृष्ट्वा सर्वासु वासनासूपाधिष्वनुमीयताम् उह्यताम् । तत्तद्वासनागोचराः पदार्थाः ततद्ज्ञानस्य विषयीभवन्तीत्यत्र न विवादः। मायायां सर्ववस्तुविषयकशासनानां तदंश भूतनामव्यभिचारेण सर्ववासनागोचर तत्तत्पदार्थज्ञानं मायोपाधिके संभवतीति न सर्वज्ञत्वहानिः । नास्त्येव तद्वस्तु, यद्वासनानामपि गोचरं न भवेत् । सति वस्तुनि कस्याश्चिदपि बुद्धेर्वासनागो चरता भवत्येव । अतस्तदुपाधिमायांशासनानां यदगोचरं तच्छशशशृंगवदलीकमेव स्यात् । अतो.मायोपाधिकस्य सर्वथा सचेंज्ञत्वं सेस्यतीति भावः ॥ १६२॥

25