पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२१

पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
१९५
कल्याणपीयूषव्याख्यासमेता

 स्पष्टः पूर्वार्धः । तद्वत्सर्वोपादानरूपत्वात् सर्वस्य जगतः उपादानकारण- भूतत्वादयमन्तर्यामी सर्वत्रावस्थितः। बुद्धेरप्युपादानत्वाद्बुद्धावपि तिष्ठतीत्यर्थः॥१६५॥

 ननु पटस्यान्तरस्तन्तुः पटोपादानं भवितुमर्हति तथा बुद्धेरपि सांशत्वात् तदंशा एव तदुपादानीभवितुमर्हन्ति । तथा च तत्रान्तरत्वेनोपादानतया ईश्वरः किमित्यभ्युपेय? इत्यत आह,पटादिति ।

पटादप्यान्तरस्तन्तुस्तन्तोरप्यंशुरान्तरः ।
आन्तरत्वस्य विश्रान्तिर्यत्रासावनुमीयताम् ।। १६६ ।।

 पटादपि तन्तुरान्तरः सूक्ष्मतरः , तन्तोरप्यंशुः परमाणुरान्तरः, तथैव यत्रान्तरत्वस्य विश्रान्तिरसावीश्वर इत्यनुमीयताम् । यथा पटस्य तन्तोरुपादानत्वेऽपि तदवयवानां तदुपादानमित्येवमवयवपरंपरायाः यत्र विश्रान्तिस्तत्र परमाणौ परंपरया सर्वोपादानत्वम् । एवं बुद्ध्यंशानां साक्षाद्बुद्ध्युपादानत्वेऽपि तत्तदान्त- रोपादानचिन्तायां यत्र तद्विश्रान्तिस्स एवेश्वर इति तस्य परंपरया बुद्ध्युपादानत्वं न हीयते । यथा च पटस्य परंपरयोपादानभूतपरमाणुः पटे तिष्ठति तद्वद्बुद्धा- वीश्वर इति भावः । १६६ ॥

 ननु तन्त्वान्तराणां केषांचिदंशानामिन्द्रियवेद्यत्वदर्शनादयमीश्वरः कुतो नेन्द्रियवेद्य इत्यत आह,द्वित्रेति ।

द्वित्रान्तरत्वकक्षाणां दर्शनेऽप्ययमान्तरः ।
न वीक्ष्यते ततो युक्तिश्रुतिभ्यामेव निर्णयः ॥ १६७॥

 द्वित्रान्तरत्वकक्षाणां, द्वे वा तिस्रो वा द्वित्राः “बहुत्रीहौ संख्येये"इति डच्, तदान्तरत्वकक्षाणां दर्शनेऽपि तदान्तरकक्षाभूतद्यणुकरपरमाण्वोरदर्शनादय मान्तरः । आंतरत्वविश्रान्तिधामेश्वरो न वीक्ष्यते । परमाणुवन्नेक्ष्यत इति भावः । अनीक्ष्यत्वे कुतस्तत्सत्तानिर्णय इत्यत आह , तत इति । ततो बुद्धेरेनीक्ष्यत्वात् युक्तिश्रुतिभ्यामेव, युक्तिः बुद्धेस्तदंशनां च सर्वेषां कार्यत्वात्तेषां किंचिन्नित्यमुपा दानमन्तराऽसंभवः । अतः कार्यमात्रसाधारण उपादानभूतः कश्चन पदार्थः