पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२६

पुटमेतत् सुपुष्टितम्
२००
[चित्रदीप
पञ्चदशी

निवृत्तिम् वा जनयन्ति । एवं च वासनानुगुणेश्वरप्रेरणात्मकं भ्रमणं, ईश्वरप्रेरणानु गुणपुरुषप्रवृत्त्यात्मकं भ्रमणमुभयमपि न विभिन्नं भवति । ईश्वरस्यैव पुरुषकार- स्वरूपेण विवर्तनात् । एवं च न लोक इवात्र पुरुषकारपदभिष्टसाधनानिष्टप्रहाण प्रयोजकं पुरुषप्रयत्नसामान्यं बोधयति । अपितु संकोचेन विषयविशेषात्मकमीश्वर प्रेरणानुगुणं पुरुषप्रयत्नमात्रं बोधयति ।

 अन्तर्यामिणो नियामकत्वं पुरुषस्य नियम्यत्वमित्येतदव्ययमपि प्राक्तनजीवकर्मापेक्षकमेव।कर्मणः कर्मजन्यवासनायाश्च जडभूतयोश्वेतानानधिष्ठितयोः फलसंपादकता न युज्यत इत्यन्तर्यामिणो नियन्तृत्वमवश्यमभ्युपगन्तव्यम् । ततश्चानायत्या पुरुषस्य नियम्यत्वं पर्यवस्यति । न च पुरुषकारस्येश्वरप्रेरणातोऽभिन्नतायां तस्य नैष्फल्यमनिच्छतोऽप्यापततीति वक्तव्यम् । ईश्वर एव पुरुषकाररूपेण विवर्तत इत्यभ्युपगमात् । नापि पुरुषप्रयत्नस्यापीश्वरात्मकत्वेऽन्तर्यामिप्रेरणं वितथं स्यादिति वाच्यम् । अचेतनस्य कर्मणस्तज्जन्यापूर्वस्य वा प्रवर्तकत्वम् न युज्यते । नापि केवलस्य जीवस्य स्वैरप्रवृत्तिरभ्युपगन्तुं शक्यते, कृतहानाकृताभ्यागमप्रसङ्गात् । इति प्राक्तनजीवकर्मसापेक्षिकः। प्रवर्तकः फलप्रदाता कश्चिदन्तर्यामी एष्टव्यः। तस्य चोपाधिपरिहाणेन केवलस्यासङ्गत्वावबोधाच्छ्रुतिस्मृतिप्रतिपादिता बन्धनिवृत्त्यात्मिका मुक्तिरेव परमं फलं भवति ।

 निरुक्तविधया पूर्वकर्मानुगुणेश्वरप्रेरणात्मकपुरुषप्रयत्नस्यैव पुरुषकारपदेन सर्वत्र कथने प्रवृत्तिनिवृत्त्यो: कर्मफलोपलब्धौ च न जीवस्य स्वातन्त्र्यम् । किन्तु सर्वात्मनान्तर्यामिपारतन्त्र्यमिति फलति । तथा च पुरुषप्रयत्नस्य वैयर्थ्यम् विधिनिषेधशास्त्राणामानर्थक्यं विषमसृष्टेः परमेश्वरस्य वैषम्यनैर्घृण्ये चापतन्तीति न मन्तव्यम् । प्राक्तनं कर्मापेक्ष्येश्वरः प्राणिजातं सुखदुःखमोहानुबन्धि सृजति । न सर्वात्मना स्वातन्त्र्येण । यद्यपीश्वरः स्वतन्त्रः । तच्च स्वातन्त्र्यं कर्मानुगुणतया सर्जकत्वेन प्रेरकत्वेन च । यथा स्वतन्त्रः कर्ता लौकिको वास्यादिकर्मजातमपेक्ष्यैव स्वकार्यं निर्वर्तयति । न केवलः प्रभवति कार्यकरणे । एवमीश्वरोऽपि । जीवोऽन्तर्यामिपराधीनोऽपि देहेन्द्रियसंघातस्य प्रेरणयां स्वतन्त्रः । ईश्वरो जीवेन न प्रेर्यते।