पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२७

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
२०१
कल्याणपीयूषव्याख्यासमेता

एवं जीवोऽपीन्द्रियैर्नप्रेर्यते । तथा च जीव: प्राक्तनकर्मानुगुणान्तर्यामिप्रेरणाया बलीयस्या अभावे स्वविवेचनाशक्त्या इन्द्रियग्रामं निगृह्य साधुनि प्रवर्तते,असाधुनि निवर्तते। एवं यो यः स्वकमिन्द्रियग्राममधीनकृस्य स्वैरप्रवृत्तिर्नभवति तमुन्निनीषते ईश्वरः । यो यः स्वकस्येन्द्रियग्रामस्य पराधीनः स्वैरप्रवृत्तिश्च भवति तमघोनिनीषते । अतः पुरुषकारस्य न वैयर्ध्यम् । न वा विधिनिषेधशास्त्राणामानर्धक्यम् । कर्मापेक्षतया सर्जकत्वेन पर्जन्यादिवत्साधारणकारणस्येश्वरस्य वैषम्यनैर्घृण्ये च न प्रसजतः । फलप्रदाने तु परमं स्वातन्त्र्यमीश्वरस्यैव, न जीवस्य । स्वेन स्वानिष्टफलोत्पादनासंभवात् । विज्ञानमयोऽपि नैसर्गिककर्मवासनावासितस्तदनुगुणतया प्रेरितश्चानिष्ठेष्विव भ्रान्त्या प्रवर्तमानो महद्दुःखमश्नुते । न वा कर्मणोऽपिविनष्टस्य तस्य फलजनकत्वायोग्यत्वात् । नापि वापूर्वस्य , अचेतनस्य तस्य दानकर्तृत्वाप्रसक्तेः । इत्यनवद्यमीश्वरस्य फलप्रदातृत्वम् । विवेचितं चैतत् वैषम्यनैर्वृण्याधिकरणे (ब्र.सू. २.१.१२) फलाधिकरणेवेति ॥ १७७ ॥

 ननु पुरुषकाराधीना वासना वासनाधीनश्च पुनः पुरुषकार इत्येवं चक्रे- णैवालम् । किं मध्यै ईश्वरप्रवेशेनेति शंकाम् समाधत्ते, ईदृगिति ।

ईदृग्बोधनेश्वरस्य प्रवृत्तिर्मैव वार्यताम् । ।
तथापीशस्य बोधेन स्वात्मासंगत्वधोजनिः ॥ १७८ ॥

 ईदृग्बोधेन ईश्वरः पुरुषकारेण विवर्तत इत्याकारेणेश्वरस्य प्रवृत्तिरन्तर्यामि रूपेण प्रेरणा मा वार्यताम् । बोधेन प्रयोजनमाह – तथेति । तथा बोधेनेशस्य स्वात्मासंगत्वधीजनिः स्वस्य रूपस्यासंगत्वविषयिका या बुद्धेरुत्पत्ति सा स्यात् । पुरुषकारस्य वासनानां च स्वतो जडत्वेन चे नानाधिष्टितानां तेषां विकारासंभवे नधिष्ठानतया कश्चिच्चेतनो मध्येऽभ्युपेयः । तच्चैतन्यस्य शुद्धरूपत्वेनासंगतया तत्प्रयुक्तम् जडेषु विकारादिकं किमपि न स्यात् । अतः किंचिच्छबलितं चैतन्यमेव मध्ये प्रवेशनीयम् । तत्र विक्रियासंभवात् । विक्रियावदुपाधिमच्चैतन्यमेवेश्वरः । तदुपादानके जगति विकाराणामुपपत्तिश्च भवति । एवंविधनके प्रविष्टस्येशस्य बोधे सति, तत्र विकारवदंशभूतोपाधिपरित्यागेऽसंगचिद्रूपप्रतिपत्तौ नैष्कर्म्यसि-

26