पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२९

पुटमेतत् सुपुष्टितम्
प्रकरणम् ॥६॥ ]
२०५
कल्याणपीयूषव्याख्यासमेता

नैयायायिकवादः, परिणामः प्रकृतिर्महदादिना विकारमापद्य स्वयमेवान्यदिव परिणमते यथाक्षीरं दधिरूपेणेति साङ्ख्यवादः आदिशब्देन सेश्वरनिरीश्वरवादिनामन्येषां मतानि गृह्यन्ते, तदेतेषां चोद्यानां पूर्वपक्षणां संभवोऽत्र अस्मन्मते न । अद्वितीयवात्वान्नारंभवादस्य, निरवयवत्वान्न परिणामवादस्य, च संभव इति भावः । अन्ततो विवर्तवाद एव सिद्धान्तः । साधनमन्तरेणैव मायावीव जगतो व्याकरणाव्याकरणे शक्तिमत्त्वात्स्वयमेव निमित्तोपादानकारणभूतत्वाज्जगत्सृष्टिमारचयत् । “तदात्मानमेव स्वयमकुरुत’ इति श्रुते(तै. २.७)रित्यर्थः । त्रयोदशाध्याये ४९-५३ लोकेष्वयमारंभपरिणामादिवादो विस्तरेण व्याख्यातः । पाठकमहाशयास्तत्रावलोकयन्तु ॥१८६॥

 ननु चेतनाचेतनात्मकस्यास्य जगतः कथमेक एवेश्वर उपादानकारणं भवतीत्याशंक्याह, अचेतनानामिति ।

अचेतनानां हेतुः स्याज्जाड्यांशेनेश्वरस्तथा ।
चिदाभासांशतस्त्वेष जीवानां कारणं भवेत् ॥ १८७ ॥

 ईश्वरो मायोपाधिको जाड्यांशेन मायांशेन अचेतनानां देहेंद्रियादिजडानां हेतुरुपादानम् । एष ईश्वरश्चिदाभासांशतो जीवानां कारणं भवेत् । उपाधिप्राधान्येनाचेतनानां चित्प्राधान्येन जीवानां चोपादानं भविष्यतीत्यर्थः ॥१८७॥

 मायाशबलितेश्वरस्य चेतनाचेतनजगत्कारणत्वं पूर्वमुक्तम् । वार्तिककारस्तु शुद्धचैतन्यस्यैव भिन्नसहकारिकारणसमवधानेन चेतनाचेतनकारणत्वमुक्तवान् । अनयोर्विरोधस्सुस्पष्टइत्याशंक्य सुरेश्वराचार्याशयविवरणेन विरोधं परिहर्तुकामः प्रथमं सुरेश्वराचार्यमतं द्वाभ्यां दर्शयति, तम इति ।

तमःप्रधानः क्षेत्राणां चित्प्रधानश्चिदात्मनाम् ।
परः कारणतामेति भावनाज्ञानकर्मभिः ॥ १८८ ॥

इति वार्तिककारेण जडचेतनहेतुता ।
परमात्मन एवोक्ता नेश्वरस्येति चेच्छूणु ।। १८९॥