पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३८

पुटमेतत् सुपुष्टितम्
२१४
[चित्रदीप
पञ्चदशी

आनन्दमयविज्ञानमयावीश्वरजीवकौ । ।
मायया कल्पितावेतौ ताभ्यां सर्वम् प्रकल्पितम् ॥ २१२ ॥

 आनन्दमयविज्ञानमयौ तन्नामककोशोपाधिकावेतावीश्वरजीवकौ। स्पष्ट मन्यत् ।। २१२ ॥

 उक्तां जीवेश्वरसृष्टिं विभजति, ईक्षणेति ।

ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
जाग्रदादिविमोक्षान्तस्संसारो जीवकल्पितः ॥ २१३ ॥

 ईक्षणादिप्रवेशान्ता ईक्षणा सृष्टिसंकल्पः तदादिः प्रवेशान्ता ईक्षणानन्तर मंभोमरीचिद्युपृथिव्यादीन् पुरुषं तदंगेभ्यो लोकपालांस्तेभ्योऽन्नं च सृष्ट्वा “कथंन्विदं मदृते स्यादिती"क्षित्वा एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत” इति श्रुत्युक्त:, प्रवेशस्तदन्ता च सृष्टिरीशेन कल्पिता । “स इमान्लोकानसृजत"(ऐत. १.१.२) इत्यारभ्य “एतया द्वारा प्रापद्यत" (ऐत.१.३.११.)इत्यन्तायामैतरेयश्रुतावीश्वरसृष्टिः श्रूयते। जाग्रदादिविमोक्षान्तस्संसारो भोगेच्छया जीवकल्पितः । अत्र “तस्य त्रय आवसथा" इत्यारभ्य “स एतमेव पुरुषं ब्रह्म ततमपश्यदि"त्यन्ता ऐतेरेयश्रुतिश्छांदोग्यश्रुतिश्चानुसंधेया(ऐत.१-३-१२-१३)(छां,६-२-३-६)॥२१३॥

 अद्वितीयब्रह्मतत्त्वानभिज्ञतैव विभिन्नवादानां कारणमित्याह, अद्वितीयमिति।

अद्वितीयं ब्रह्मतत्त्वमसंगं तन्न जायते ।
जीवेशयोर्मायिकयोर्वृथैव कलहं ययुः ॥ २१४ ॥

 ब्रह्मतत्त्वं निर्गुणब्रह्मस्वरूपमद्वितीयं सजातीयादिभेदरहितमसंगम् सर्वसंग रहितं च। तद्रहस्यं ये द्वैतवादिनो न जानते, ते मायिकयोर्मायाकल्पितयोर्जीवेश्वरयोर्विषये वृथा कलहं ययुः। कलहवैयर्थ्यम् स्पष्टयितुमत्र मायिकयोरिति साभिप्रायं विशेषणम्॥२११॥