पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२३९

पुटमेतत् सुपुष्टितम्
प्रकरणम्॥६॥]
२१५
कल्याणपीयूषव्याख्यासमेता

 जीवेश्वरयोर्मायिकत्वाभिज्ञानेनैवात्मनः कृतकृत्यतामाह, ज्ञात्वेति ।

ज्ञात्वा सदा तत्त्वनिष्ठां ननु मोदामहे वयम् ।
अनुशोचाम एवान्यान्न भ्रान्तैर्विवदामहे ॥ २१५ ।।

 मिथो विवदन्तां नामाद्वैततत्वानभिज्ञाः, वयन्तु ब्रह्मतत्त्वं ज्ञात्वा सदा । तत्त्वनिष्ठा अनवरतब्रह्मनिष्ठा मोदामहे ननु । अविच्छिन्नानन्दरसं निश्चयमनुभवामः । नन्वित्यामन्त्रणे । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु। अन्यान्यथार्थज्ञानविहीनाननुशोचाम। दृष्टा तेषामज्ञानमनुकंपामहे। तैर्भान्तैर्न विवदामहे। अनेन तन्मतानामतिफल्गुत्वं सूचितम् । "स एवाधस्तात्” (छाम्.७.२५.१.) अहमेवाधस्तात्” (छां ७.२५.१) "आत्मैवाधस्तात्”(छा. ७.२५ २.) ‘सर्वम् तं परादाद्योऽन्यत्रात्मनः सर्वं वेद" (बृ.२.४.६.“ब्रह्मैवेदं सर्वं’ “आत्मैवेदं सर्वं ”(छां. ७.२५.२)“नेह नानास्ति किंचन’(बृ.४.४.१९.) “यस्मात्परं नापरमस्ति किंचित्” (श्वे.३.९) ब्रह्मैवेदं विश्वमिदं वरिष्ठम् (मुं.२.२.११.)इत्यादिश्रुतिशतानि ब्रह्मातिरिक्तं वस्त्वन्तरं वारयन्तीति भावः।।२१५॥

 जीवेश्वरयथार्थस्वरूपानभिज्ञान भ्रान्तान् पृथग् दर्शयति, तृणेति ।

तृणार्चकादियोगान्ता ईश्वरे भ्रान्तिमाश्रिताः।
लोकायतादिसांख्यान्ता जीवे विश्रान्तिमाश्रिताः ॥ २१६ ॥

 स्पष्टा अक्षरयोजना । एतत्सर्वमस्मिन् प्रकरणे ६०–१२१ श्लोकेषु सम्यग् विचारितम् ॥ २१६ ॥

 ब्रह्मज्ञानशून्यानां न मोक्षो नाप्यैहिकं सुखमित्याह, अद्वितीयेति ।

अद्वितीयब्रह्मतत्त्वं न जानन्ति यदा तदा ।
भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् ॥ २१७ ॥

 स्पष्टोऽर्थः। सर्वस्य द्वैतस्य कामाद्युपहितत्वेन चित्तविश्रान्तेरभावादिह सुखाभाव इति भावः ॥ २१७ ॥