पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४१

पुटमेतत् सुपुष्टितम्
प्रकरणम् ६॥]
२१७
कल्याणपीयूषव्याख्यासमेता

असंगचिद्विभुजींवस्साम्ख्योक्तस्तादृगीश्वरः ।
योगोक्तस्तत्त्वमोरर्थौ शुद्धौ ताविति चेच्छृणु ॥ २२१ ॥

 जीवोऽसंगचित् संगरहितश्चिच्चैतन्यस्वरूपो विभुस्सर्वव्यापीति साङ्ख्योक्त ईश्वरः तादृगसंगचिद्विभुरिति योगोक्तः । तत्र नास्माकं विप्रतिपत्तिः। विप्रतिपत्तिस्थलमाह, तत्वमोरिति । शुद्धावसंगचिद्रूपौ तावीश्वरजीवौ तत्त्वमोस्तच्छब्दयुष्मच्छब्योरर्थौ तच्छब्दयुष्मच्छब्दवाच्यावित्यत्रांश एव विप्रतिपत्तिः । भिन्नशब्द प्रतिपाद्ययोर्भेदस्य नियतत्वेन तादृशयोर्भेद इत्यर्थस्यापि प्रतीतेरस्मन्मतसिद्धान्तहानिरित्यपि तदुक्त्योट्टम्कितं भवति। वस्तुतस्तादृशस्य शब्दाभिधेयत्वमेव न सिध्यति। शब्दानां गुणवृत्तित्वात् । तेषां शब्दाभिधेयत्वं च किंचिदुपाधिं कल्पितमाश्रित्यैव वक्तव्यम् । उपदेशस्तु शब्दव्यवहारमन्तरा न सिध्यति। अतश्शुद्वयोस्तयोश्शब्द व्यवहारासंभवात्सोपाधिकयोरेव तदर्थत्वं वाच्यम् । तादृशयोर्भेदभानेऽपि शुद्धेन अभेद इत्याशयेन तदीयं मतं निरस्यति शृण्वित्युपक्रमेण ॥२२१॥

न तत्त्वमोरुभावर्थावस्मत्सिद्धान्ततां गतौ ।
अद्वैतबोधनायैव सा कक्षा काचिदिष्यते ॥ २२२ ॥

 तत्वमोरुभावर्थौ सांख्ययोगोक्तावसंगचिद्रूपजीवेशौ अस्मत्सिद्धान्ततां अस्माकमद्वैतिनां सिद्धान्ततां न गतौ। न वयं तत्त्वमोरसंगचिद्रूपम् वाच्यमर्थमंगी कुर्म इति भावः । ननु कूटस्थो ब्रह्म इति भिन्नतया युष्माभिरपि निरूपितावेवेत्याशंकायामाह, अद्वैतेति ।अद्वैतबोधनायैव यौ कूटस्थब्रह्मेति लोके भेदेन व्यवह्रियेते तन्निरासपूर्वकं तयोरभिन्नताप्रतिपादनाय सा काचित् कक्षा तयोर्भेदकोटिरिष्यते । तत्र कूटस्थब्रह्मणोरभेदनिदिदर्शयिषयैव लोकव्यवहारसिद्धपार्थक्यानभ्युपगमे शब्दव्यवहारस्यैव विलयापत्यैव शाब्दव्यवहारमन्तरोपदेशस्यासंभवेन तदनुरोधेन कल्पितं व्यावहारिकं सोपाधिकयोर्भेदमनुसृत्य तयोस्तत्त्वं पदवाच्यत्वमुच्यते । न तु वस्तुतस्तस्य पदाभिधेयत्वमिति भावः ॥२२२ ॥

 शुद्धब्रह्मणश्शब्दाभिधेयत्वे तत्त्वम् पदार्थपरिशीलनं निष्फलमेवेत्याशंकाम् परिहरति, अनादीति ।

28