अनादिमायया भ्रान्ता जीवेशौ सुविलक्षणौ । |
अनादिमायया भ्रान्ताः सांख्यादयः पामराश्चान्ये जीवेशौ सुविलक्षणौ सम्यग्भिन्नस्वभावाविति मन्यन्ते । तद्व्युदासाय तदाशयनिरासाय केवलं तयोस्तत्त्वंशब्दयोः शोधनं विमर्शपूर्वकार्थविचारः क्रियते । तयोरर्थे विचारितेऽसोति पदबोध्या भेदोपपत्तये तत्त्वंपदोपस्थितयोरर्थयोर्भेदप्रतीतिप्रयोजका ये धर्मास्तेषां "नेति नेती"ति वाक्यगतनशब्देन निरसनस्यावश्यकतया तन्निरसने चासंगचिद्रूपमेकमेवावशिष्यत इत्यसिपदबोध्यमैक्यं सूपपन्नं भवतीत्याशयेन तदर्थविचारोऽस्माभिराद्रियत इति तात्पर्यम् ॥ २२३ ॥
प्रकरणारंभोक्तघटाकाशदृष्टान्त (६-१९) एतदर्थप्रकाशनयोजक एवेति तस्यौचित्यं स्मारयति, अत इति ।
अत एवात्र दृष्टान्तो योग्यः प्राक् सम्यगीरितः । |
सुलभा पदयोजना । प्राक् प्रकरणादौ। दृष्टान्ते उपाधिभेदेन भेदप्रतीतावपि तद्विनिर्मोके यथाकाशस्यैक्यं सिध्यति तथेहापीति भावः ॥२२४॥
पदार्थशोधनविवक्षया दृष्टान्तं विवृणोति, जलेति ।
जलाभ्रोपाध्यधीने ते जलकाशाभ्रखे तयोः । |
ते जलाकाशाभ्रखे जलाभ्रापाध्यधीने अतस्साश्रये । तयोर्जलाभ्राकाशयोरा- धारावाश्रयौ घटाकाशमहाकाशौ सुनिर्मलावुपाधिनिरपेक्षौ ॥। २२५॥
दृष्टान्तं दार्ष्टान्तिके समन्वयति, एवमिति ।
एवमानन्दविज्ञानमयौ मायाधियोर्वशौ । |