पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४४

पुटमेतत् सुपुष्टितम्
२२०
[चित्रदीप
पञ्चदशी

जीवोऽसंगत्वमात्रेण कृतार्थ इति चेत्तदा।
स्रक्चंदनादिनित्यत्वमात्रेणापि कृतार्थता ॥ २२९ ॥

 कृतार्थः आत्यन्तिकसुखवानित्यर्थः ! सुगमा पदयोजना । स्रक्चंदनादि नित्यत्ववत्तन्मते जीवासंगत्वस्य दुर्निरूपत्वादिति भावः ।२२९ ॥

 तदेतदाह, यथेतेि ।

यथा स्रगादिनित्यत्वं दुःसंपादं तथाऽत्मनः ।
असंगत्वं न संभाव्यं जीवतोर्जगदीशयोः ॥ २३० ॥

 जगदीशयोर्जीवतोस्सतोरात्मनोऽसंगत्वं न संभाव्यम् संगिपदार्थान्तरस्य सत्त्वात् । स्पष्टमन्यत् । एवं च जगदीश्वरयोः कल्पितत्वनिश्चयमन्तरा जीवस्यासंगत्वनिश्चयो दुर्निरूप एव। अतस्तवासंगत्वज्ञानं भ्रम एवेति तात्पर्यम् ॥२३० ॥

 जगतस्सत्यत्वे ईश्वरस्य सत्त्वेऽपि स्वस्यासंगत्वं जीवन्मुक्तस्येव कुतो न स्यादित्याशंक्याह, अवश्यमिति ।

अवश्यं प्रकृतिस्सगम् पुरे वापादयेत्तदा ।
नियच्छत्येतमीशोऽपि कोऽस्य मोक्षस्तथा सति ॥ २३१॥

 जगदीश्वरयोस्सत्यत्वे प्रकृतिर्जगन्निदानभूता पुरेव तस्यासंगत्वनिश्चयात्पूर्व यदा तदनिच्छया संगमापादयेत् तदा तद्वदसंगत्वनिश्चयोत्तरमपि संगमापादयेत् । ईश्वरसद्भाववादिनां तस्य नियामकतया यथा प्रकृतिस्सज्जति तथा ईशोऽपि प्रकृतिं नियच्छति । तथा सति तदानीमस्य जायमानस्वासंगत्वनिश्चयस्य भ्रमत्वात्तस्य मोक्षः कः ? नास्त्येव ॥२३१॥

अविवेककृतसंगो नियमश्चेति चेत्तदा ।
बलादापतितो मायावादस्साख्यस्य दुर्मतेः ॥ २३२ ॥

 जीवस्य प्रकृतिसंपादितस्संगो देहेन्द्रियाद्यभिमानः ईश्वरकृतप्रकृतिनियमश्चा विवेककुतोऽविवेकस्य कार्यमिति चेत्ततो विवेकेन नश्यतीति यद्युच्यते तदा दुर्मते-