पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२२३
कल्याणपीयूषव्याख्यासमेता

 “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय"मिति (छां. ६. २. १.) श्रुतौ सृष्टेः प्राग्यदद्वैतं श्रुतं । तदेवाद्य सृष्ट्यनन्तरं वर्तमानकाले उपरि लयानन्तरं च भविष्यत्काले मुक्तावपि वर्तते । कालत्रयाबाधितमेकमेवाद्वितीयं ब्रह्म परमार्थम् तत्वमित्यर्थः । किं त्वखिलान् जनान् माया विलक्षणभावैर्वृधा भ्रामयंति ॥ २३८॥

 नन्वविदुषामिव विदुषामपि संसारे भ्रमदर्शनात्तत्त्वज्ञानं न संसारनिवर्तकम् । ततश्वविद्याफलं संसारनिवृत्तिरिति न घटत इत्याशंकते, य इति ।

ये वदन्तीत्थमेतेऽपि भ्राम्यन्तेऽविद्ययात्र किम् ।
न यथापूर्वमेतेषामत्र भ्रान्तरदर्शनात् ॥ २३९ ॥

 इत्थमद्वितीयब्रह्म सत्यभन्यत्सर्वम् मायिकमित्येवं ये उपदेष्टारो वदन्ति एते ऽप्यत्र संसारे भ्राम्यन्ते संचरन्ति । अतो विद्यया किं फलम् ? समाधत्ते नेति । अत्र संसारे तेषां विदुषां यथापूर्वं ज्ञानोदयात्पूर्वमभिमानपूर्वकं यथा भ्रमणं तथा न । तत्र कारणमाह, भ्रान्तेरदर्शनादिति । भ्रान्तेरानन्दमयादिकोशेष्वात्मभ्रान्तेरदर्शनात् । तेषां प्रारब्धाधीनविक्षेपशक्तेरसत्वेऽपि ब्रह्मसाक्षात्कारेणावरणस्य नाशात् बालोन्मत्तादिवदनिच्छयैव भ्रमणं प्रारब्धकर्मफलक्षयपर्यन्तं, “तस्य तावदेव चिरं (छां, ६. १४.२) इति, श्रुतेरिति भावः । २३९॥

 अज्ञानिनामभिमानपूर्विकाम् प्रवृतिं दर्शयति, ऐहिकेति ।

ऐहिकामुष्मिकः सर्वः संसारो वास्तवस्ततः ।
न भाति नास्ति चाद्वैतमित्यज्ञानिविनिश्चयः ॥ २४० ॥

 ऐहिकामुष्मिकः संसारो वास्तवः सत्य एव । ततोऽद्वैतं न भाति तेषां भ्रान्तिपिहितदृष्टीनां बुद्धेर्न प्रतीयते । अतो नास्तीति अज्ञानिविनिश्चयः ॥ २४० ॥

 ज्ञानिनि तद्वैपरीत्यमाह,ज्ञानिन इति ।

ज्ञानिनो विपरीतोऽस्मान्निश्चयः सम्यगीक्ष्यते ।
स्वस्य निश्चयतो बद्धो मुक्तोऽहं चेति मन्यते ॥ २४१ ॥