पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
[चित्रदीप
पञ्चदशी

 स्पष्टः पूर्वार्धः । स्वस्य निश्वयतः स्वस्य निश्चयानुसारमज्ञानी “अहं बद्ध" इत्यात्मानं मन्यते । ज्ञानी “त्वहं मुक्त” इति च ॥२४१॥

अद्वैतद्वैतयोः सत्यत्वासत्यत्वविचारः।

 नन्वद्वैते भासकस्य वस्त्वन्तरस्याभावात्तस्यापरोक्षतया भानं न संभवति। अभाने च कुतस्तन्निश्चय इत्याशंक्य परिहरति, नेति ।

नाद्वैतमपरोक्षम् चेन्न चिद्रूपेण भासनात् ।
अशेषेण न भातं चेत् द्वैतम् किं भासते तव ? ॥ २४२ ॥

 अद्वैतमपरोक्षम् प्रत्यक्षम् न भवतीत्यतोऽनिश्चेयमिति चेन्न तथा वक्तव्यम् । घटो भाति पटो’ भातीत्येवं घटादिष्वनुस्यूततया चिद्रूपेण चैतन्यस्वरूपेण भासनात् । तस्य स्वप्रकाशत्वेन प्रकाशन्तरानपेक्षणादपरोक्षत्वमनुभवसिद्धमेव । घटपटादिष्वनुस्यूततया भानस्य प्रतीतिरस्तु नाम । तथाप्यशेषेणानन्दादिरूपेण न भातं नानुभूत इति चेद्द्वैतमखिलं किंचिदज्ञतादशायां भासते किम् ? तव किंचिदज्ञतादशायां दैतस्य साकल्येनाभानवन्ममाज्ञानदशायां साकल्येनाभानमस्तु। तव सर्वज्ञतादशायां द्वैतस्य साकल्येन भानं तथा ज्ञानदशायां । ममाप्यद्वैतस्य साकल्येन भानमुपपद्यत इति भावः ॥ २४२ ॥

 संपूर्णभानाभावस्योभयोस्समाने द्वैतसिद्धिवत्कथमद्वैतसिद्धिर्न स्यादिवि। शङ्कते, दिङ्मात्रेणेति ।

दिङ्मात्रेण विभानं तु इयोरपि समं खलु ।
बैतसिद्धिवदद्वैतसिद्धिस्ते तावता न किम् ॥ २४३ ॥

 दिङ्मात्रेणैकदेशमात्रेण। सुलभा पदयोजना । द्वैताद्वैतयोर्विमाने समे सति दैतसिद्धिवदेकदेशमात्रस्य भानेन यथा द्वैतसिद्धिर्भवति तथा चैतन्यस्य मानेनाद्वैतसिद्धिस्तावतैकदेशप्रतीत्या किं न स्यात् । भवेदेवेतिभावः। यथैकदेश स्फुरणेन द्वैतसिद्धिस्तथा चिद्रूपस्याप्येकदेशस्फुरणेनाद्वैतसिद्धिः स्यादिति भाव: ॥२४३ ॥