पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
[चित्रदीप
पञ्चदशी

 ननु निरस्तमपि द्वैतं वासनाबलात् पुनःपुनर्भात्येवैत्याशंक्य परिहरति,पुनरिति।

पुनर्द्वैतस्य वस्तुत्वं भाति चेत्त्वं तथा पुनः ।
परिशीलय को वात्र प्रयासस्तेन ते वद ।। २४७ ॥

 स्पष्टोऽर्थः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेने” (कठ. १.२.२२.-मुंड. ३.२.२.) त्यात्मोपलब्धेरतिप्रयाससाध्यताम् मनसि निधाय “श्रोतव्यो मन्तव्यो निदिध्यासितव्य", इति (बृ. ४. ५. ६. ) श्रुतेरसकृदा वृत्तेरुपदिष्टत्वात् पौनःपुन्येन परिशीलने न कोऽपि प्रयास इत्यर्थः ।। २४७ ॥

 अद्वैतसिद्धिसंपाने कालदैघ्र्यमविचारणीयमित्याह, कियन्तमिति ।

कियन्तं कालमिति चेत् खेदोऽयं द्वैत इष्यताम् ।
अद्वैते तु न युक्तोऽयं सर्वानर्थनिवारणात् ॥ २४८ ॥

 कियन्तं कालमियं परिशीलना कर्तव्येति चेदयम् खेदो द्वैते विषये इष्यताम्। द्वैते प्रसक्तततदनर्थपरिहारार्थं कियान् कालो यापनीय इत्यालोचना कार्या । तत्रैकस्यानर्थस्य निवारणेऽप्यन्यस्यानर्थस्यापातात् । अद्वैते विषये तु तर्ह्ययं खेदो न युक्तः, कुतः ? अद्वैतस्य सर्वानर्थनिवारकत्वात् । सर्वानर्थनिवारकस्याद्वैतस्य श्रमसाध्यत्वेऽपि स श्रमः श्रमत्वेन न परिगणनीय इत्यर्थः, आत्यन्तिकफलजनकत्वात् ॥ २४८ ॥

 ज्ञानात्प्रागिव तदनन्तरमपि जीवस्य पिपासादयोऽनुभूयन्त एवेत्यत आह, क्षुदिति ।

क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् ।
मच्छ्ब्दवाच्येऽहंकारे दृश्यन्तां नेति को वदेत् ॥ २४९ ॥

क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् । मध्छब्दसच्येऽहंकारे दृश्यन्तां नेति को वदेत् ॥ २४९ ॥

 यथापूर्वं ज्ञानेत्त्पतेः पूर्वं यथा भवति तथाऽनन्तरमपि मयि जीवे क्षुत्पिपासादय आदिशब्देन रागप्राप्त इतरेऽपि गृह्णन्ते, दृष्टा इति वदसि चेत्, मच्छब्दवाच्येऽहंकारे कर्तृत्वाभिमानाविष्टे जीवे ते पिपासादयो दृश्यन्ताम् ।