पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२२७
कल्याणपीयूषव्याख्यासमेता

क्षुत्पिपासादयोऽहंकाराभिमानस्य जीवस्य घर्मा न त्वात्मन इति भावः । ते धर्मा जीवे न दृश्यन्त इति को वदेत् ? न कोऽपीत्यर्थः । ज्ञानी स्वहंकारादिविनिर्मुक्त इति तस्य न सन्त्येव क्षुत्पिपासादय इति भावः । २४९ ॥

 ननु क्षुत्पिपासदयो न केवलमहंकारे दृश्यन्ते, किंतु कूटस्थेऽपीत्याशंक्याह,

चिद्रूपेऽपि प्रसज्येंस्स्तादात्म्याध्यासतो यदि ।
मा ध्यानम् कुरु किंतु त्वं विवेकं कुरु सर्वदा ॥ २५० ॥

 तादात्म्याध्यासतः सस्यानृते मिथुनीकृत्याहमिदं ममेदमित्यन्योन्यधर्माणा- मन्योन्यस्मिन्नध्यासेन क्षुत्पिपासादयो जोवधर्माश्चिद्रूपे कूटस्थे यद्यपि प्रसज्येरन्, तर्हि चिद्रूपेऽहंकारतादात्म्याद्ध्यानं मा कुरु । सर्वदा त्वं कूटस्थोऽहंकारादेर्भिन्न इति विवेकम् कुरु ॥२५०॥

 चिरकालवासनाबलादध्यापस्य सम्यङ्निवर्तनं न सुलभतरमित्याशंक्य तत्प्रतीकारमाह, झटितीति ।

झटित्यध्यास आयाति दृढवासनयेति चेत् ।
आवर्तयेद्विवेकं च दृढं वासयितुं सदा ॥ २५१ ॥

 स्पष्टोऽर्थः । आवर्तयेत् पुनःपुनरनुसंधानं कुर्यात् । पुनःपुनरनुसंधानेन विवेकवासनायां दृढीकृतायां तादात्म्यवासना: स्वयमेव नश्यन्तीति भावः ॥२५१॥

 एवं पुनःपुनरनुसंधानमहिम्ना विवेकेऽनुभूयमाने युक्तिसिद्धम् द्वैतमिथ्यात्वं क्रमेणानुभवपदमधिरोहतीत्यनुभवेनैव मिथ्यात्वेऽवगतेऽद्ध्यासस्यावकाश एव नास्ति, अतस्तद्वासनानां क्षय आनुषंगिको नान्तरीयक इत्याह, विवेक इति ।

विवेके द्वैतमिथ्यात्वं युक्तैवेति न भण्यताम् ।
अचिन्त्यरचनात्वस्यानुभूतिर्हि स्वसाक्षिकी ॥ २५२ ॥