पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्॥६॥]
२३१
कल्याणपीयूषव्याख्यासमेता

यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति ।
कामा ग्रन्थिस्वरूपेण व्याख्यात वाक्यशेषतः ॥ २६० ॥

 यदा सर्वे प्रभिद्यन्ते हृदयग्रन्धयस्त्विति (कठ.२.६.१५.) वाक्यशेषतः एतादृशवाक्यशेषेण कामा ग्रन्थिस्वरूपेण व्याख्याताः। एतादृशवाक्यशेषेण कामाः ग्रन्धिस्वरूपेण व्याख्यातत्वेन कामाः ग्रन्थिरूपत्वेन व्याख्यात- प्रायाः एवं च परतत्वसाक्षात्कारे सति कामविमोक इति श्रुत्या काल- विशेषोऽपि दर्शित इति तदानीं तत्फलमनुभूयत इति तात्पर्यम्॥२६०॥

 ननु लोके कामस्येच्छापरपर्यायतया दृष्टत्वात् ग्रन्धिशब्देन कथं कामो विवक्ष्यत इत्यांशंक्याह, अहंकारेति ।

अहंकारचिदात्मानावेकीकृत्याविवेकतः ।
इदं मे स्यादिदं मे स्यादितीच्छः कामशब्दिताः ॥ २६१ ॥

 अविवेकतोऽहंकारचिदात्मानावहंकारः कर्तृत्वाभिमानी जीवः चिदात्मा निर्विकारः कूटस्थस्तावुभावेकीकृत्यान्यस्य धर्मानन्यस्मिन्नध्यस्येदं मे स्यादिदं मे स्यादिति जाया मे स्याद्वितं मे स्यादित्याकारिकाः इच्छाः इच्छाविशेषाः कामशब्दिताः कामशब्दवाच्याः। एवं चेच्छामात्रस्य न कामत्वेनात्र विवक्षितत्वम् ।किंत्वध्यासमूलकेच्छाविशेषस्यैवात्र कामत्वेन विवक्षिततया तस्य बन्धकत्वेन ग्रन्थित्वमुपपन्नमेवेति भावः॥२६१।।

 यद्यध्यासमूलककामानां त्याग एव तत्त्वज्ञानफलं स्यात्तर्हीतरकामानां तत्वज्ञानिनोऽभ्युपगमप्रसंग इत्यापत्तिमिष्टापत्या परिहरति, अप्रवेश्येति ।

अप्रवेश्य चिदात्मानं पृथक्पश्यन्नहंकृतिम् ।
इच्छम्स्तु कोटिवस्तूनि न बाधो ग्रन्धिभेदतः ॥ २६२ ॥

 चिदात्मानं कूटस्थमहंकारेऽप्रवेश्य अनध्यस्थ अहंकृतिं कर्तृत्वाभिमानं पृथक् विविक्ततया पश्यन् कोटिवस्तुनीच्छन्नपि कामयमानोऽपि बाधो न ।