द्वैताद्वैतयोस्तमःप्रकाशवद्विरुद्धस्वभावयोर्युगपद्भानस्यासंभवाद्द्वैते प्रतीयमानेऽद्वैतप्रतीतिर्न स्यादिति पुनः शंकते, द्वैतेनेति ।
द्वैतेन हीनमद्वतं द्वैतज्ञाने कथं त्विदम् । |
दैतेनाद्वैतं हीनम् विरुद्धम् । शून्यमित्यर्थः । अतो द्वैतज्ञाने सतीदमद्वैतं कथं सिध्यति । विरुद्धयोस्तमप्रकाशयोर्युगपत्प्रतीत्यसंभवात् । सति द्वैतज्ञानेऽद्वैत प्रतीत्यसंभवादिति चेदद्वैतभाने द्वैतस्य प्रतीतिस्तवापि न संभवतीति सममिति भावः । पूर्वपक्षी प्रतिबंदीं परिहरति, चिद्भानमिति । चिद्भानं तु चैतन्यप्रतीतिस्त्वस्य द्वैतस्याविरोधि । चिद्भानकालेऽपि द्वैतस्य भानात् । चिद्भानमेव खलु तवाद्वैतम् । एवं चाद्वैतेन द्वैतस्य विरोधो नास्तीति स्फुटम् । अत उभे असमे ॥ २४४ ॥
एवं द्वैतेनाप्यद्वैतस्य विरोधो नास्तीति परिहरति, एवमिति ।
एवं तर्हि शृणु द्वैतमसन्मायामयत्वतः। |
एवं तर्हि द्वैतस्य प्रतीतावप्यद्वैतस्यप्रतीतिरित्युच्यते चेत्परिहारं श्रृणु। मायामयत्वत ईश्वरादिस्तंबपर्यन्तं यद्वद्वैतं प्रतीयते तत्सर्वं मायाविकारत्वादसीदेवैंद्र जालिकवस्तुवदविद्यमानमेव, तेन मयामयतयाऽवास्तवत्वेन तत्प्रतीतावपि “नेति नेती" त्यादिवाक्यैर्द्वैते निरस्ते परिशेषाद्वास्तवमबाधितमद्वैतं विभासते प्रतीयते ॥२४५ ॥
अद्वैतस्य परिशेषप्रकारमाह, अचिंत्येति ।
अचिन्त्यरचनारूपं मायैव सकलं जगत् । |
अचिन्त्यरचनारूपं मनसाऽपि चिंतितुमशक्या या रचना सैव रूपं यस्य तत्सकलं जगन्मायैवेति दैतस्यावस्तुतां निश्चित्याद्वैते चैतन्ये वस्तुत्वं परिशेष्यताम् । असत्यत्वेन द्वैते निरस्ते सत्यद्वैतमेवावशिष्यत इति भावः ।। २४६ ॥