पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२२७
कल्याणपीयूषव्याख्यासमेता

क्षुत्पिपासादंयोऽहंकाराभिमानस्य जीवस्य धर्मा न त्वात्मन इति भावः। ते धर्मा जीवे न दृश्यन्त इति को वदेत् ? न कोऽपीत्यर्थः । ज्ञानी त्वहंकारादिविनिर्मुक्त इति तस्य न सन्त्येव क्षुत्पिपासादय इति भावः ॥ २४९ ॥

 ननु क्षुत्पिपासदयो न केवलमहंकारे दृश्यन्ते, किंतु कूटस्थेऽपीत्याशंक्याह, चिद्रूपेति।

चिद्रूपेऽपि प्रसज्येरंस्तादात्म्याध्यासतो यदि ।
मा ध्यानं कुरु किंतु त्वं विवेकं कुरु सर्वदा ।। २५० ॥

 तादात्म्याध्यासतः सत्यानृते मिथुनीकृत्याहमिदं ममेदमित्यन्योन्यधर्माणामन्योन्यस्मिन्नध्यासेन क्षुत्पिपासादयो जोवधर्माश्चिद्रूपे कूटस्थे यद्यपि प्रसज्येरन्, तर्हि चिद्रूपेऽहम्कारतादात्म्याद्ध्यानं मा कुरु । सर्वदा त्वं कूटस्थोऽहंकारादेर्भिन्न इति विवेकं कुरू ॥ २५० ॥

 चिरक, लवासनाबलादध्यापस्य सम्यङ्निवर्तनं न सुलभतरमित्याशंक्य तत्प्रतीकरमाह, झटितीति ।

झटित्यध्यास आयाति दृढवासनयेतेि चेत् ।
आवर्तयेद्विवेकं च दृढं वासयितुं सदा ॥ २५१॥

 स्पष्टोऽर्थः आवर्तयेत् पुनःपुनंनुसंधानं कुर्यात् । पुनःपुनरनुसंधानेन विवेकवासनायाम् दृढीकृतायां तादात्म्यवासनाः स्वयमेव नश्यन्तीति भावः ॥२५१॥

 एवं पुनःपुनरनुसंधानमहिम्ना विवेकेऽनुभूयमाने युक्तिसिद्धं द्वैतमिथ्यात्वं क्रमेणांनुभवपदमधिरोहतीत्यनुभवेनैव मिथ्यात्वेऽवगतेऽध्यासस्यावकाश एव नास्ति, अतस्तद्वासनानां क्षय आनुषंगिको नान्तरीयक इत्याह, विवेक इति ।

विवेके हैतमिथ्यात्वं युक्तैवेति न भण्यताम्।
अचिन्त्यरचनात्वस्यानुभूतिर्हि स्वसाक्षिकी ।। २५२ ।।