पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२२९
कल्याणपीयूषव्याख्यासमेता

तया प्रतियोगिभूतचितश्चिदन्तरग्राह्यत्वे घटादिवत्तस्य जडत्वापत्तिः। न द्वितीयः । स्वाभावस्य स्वेन ग्रहीतुमशक्यत्वात् । अतश्चित्प्रागभावो नानुभूत इत्युक्तिस्सम्यगे वेति बोध्यम् । न चैवं रीत्या द्वैतस्यापि प्रागभावस्याननुभवात् तस्यापि नित्यत्व- प्रसंग इत्याशंकां परहरति, द्वैतस्येति । द्वैतस्य प्रागभावस्तु चैतन्येऽनुभूयते । जाग्रति वर्तमानस्य द्वैतस्य प्रागभावस्सुषुप्तौ साक्षिणानुभूयते ॥२५४ ॥

 प्रागभावयुतत्वे सत्यचिन्त्यरचनात्वं मिथ्यात्वमिति लक्षणं द्वैते समन्वेति, प्रागभावेति ।

प्रागभावयुतं द्वैतं रच्यते हि घटादिवत् ।
तथापि रचनाऽचिन्त्या मिथ्या तेनेन्द्रजालवत् ॥ २५५॥

 प्रागभावयुतं द्वैतं जगत् घटादिवत्सत्यत्वेन भासमानमिव रच्यते नियतिः कृतनियमेन विन्यस्यते । तथापि तस्य रचनाऽचिन्त्या बुद्धेरगोचरा । तेन बुद्धेरगम्यत्वेनेन्द्रजालवन्मिथ्या अनिर्वचनीया ॥ २५५ ॥

 ननु चितेर्द्वैतंसाक्षितया ज्ञानरूपत्वेन स्वप्रकाशत्वं सत्यत्वमपरोक्षत्वं च सिद्धमेव । तथा च "न तदनुभूयते प्रत्यक्षतये"ति वदतामज्ञातृत्वमेवेत्याह, चिदिति

चित्प्रत्यक्षा ततोऽन्यस्य मिथ्यात्वं चानुभूयते ।
नाद्वैतमपरोक्षम् चेत्येतन्न व्याहतं कथम् । २५६ ॥

 चित्प्रत्यक्षा स्वप्रकाशत्वेन नित्या अपरोक्षा। ततोऽन्यस्य द्वैतस्य मिथ्यात्वं च चितानुभूयते । एवं च सत्यद्वैतमपरोक्षम् न, अप्रत्यक्षम् । एतद्वचनं कथं न व्याहतं भवेत् ? अद्वैतस्य चिदनतिरेकित्वात् ॥२५६॥

 एवमद्वैतस्य प्रत्यक्षत्वेन केषांचिदविश्वासः कुत इति शंकां प्रतिबंधोत्तरयति, इत्थमिति ।

इत्थं ज्ञात्वाप्यसंतुष्टाः केचित्कुत इतीर्यताम् ।।
चार्वाकादेः प्रबुद्धस्यात्मा देहः कुतो वद ॥ २५७॥