पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
[चित्रदीप
पञ्चदशी

कुतः? ग्रन्थिभेदतः अध्यासमूलककामानां विच्छिन्नत्वात्। तेषामेव बंधकत्वादितरकामानां सत्वेऽपि तादृशकामाभावे बंधाभाव इति भावः ॥२६२॥

 नन्विच्छैव नोदेतीति किमिति तादृशानां कामानामभ्युपगम इत्यत आह, ग्रन्थिभेद इति ।

ग्रन्थिभेदेऽपि संभाव्या इच्छाः प्रारब्धदोषतः ।
बुद्ध्वापि पापबाहुल्यादसंतोषो यथा तव ।। २६३ ॥

 हृदयस्य ग्रन्थिभेदेऽपि प्रारब्धदोषत इच्छास्संभाव्याः । तत्र दृष्टान्तमाह, बुद्ध्वापीति । चितः प्रत्यक्षत्वं जगतो मिथ्यात्वं च बुद्ध्वाऽपि पापबाहुल्यात् प्रारब्धकर्मजन्यपापप्राबल्यात् यथा तवासंतोषो जायते तथेत्यर्थः ॥ २६३ ॥

 अध्यासाभावे केवलेच्छानामबाधकत्वमेव दृष्टान्तरूपेण विवृणोति, अहंकारेति।

अहंकारगतेच्छाद्यैर्देहव्याध्यादिभिस्तदा ।
वृक्षादिजन्मनाशैर्वा चिद्रूपात्मनि किं भवेत् ॥ २६४ ॥

 अहंकारगतेच्छाद्यैः कूटस्थेऽनध्यस्तैस्तदा देहव्याध्यादिभिर्वृक्षादिजन्मनाशैश्चिद्रूपात्मनि किं भवेत । न किमपीति भावः । अध्यासाभावे कूटस्थस्य देह संबंधाभावात्तद्गतव्याध्यादेर्न तस्य पीडा । अत्र वृक्षादिजन्मनाशैर्यथा कूटस्थस्य बाधो नास्ति तथा देहव्याधिभिश्च न बाधः । वा शब्द इवार्थः ॥ २६४ ॥

 अनन्तरं यथा व्याद्ध्यादिपीडाशान्तिस्तथा तत्पूर्वमपि चास्तु । तत इदं तत्त्वज्ञानफलं कथं भवेदित्याशंक्येष्टापत्त्या परिहरति, ग्रथिभेदादिति ।

ग्रन्थिभेदात्पुरात्येवमिति चेत्तन्न विस्मर ।
अयमेव ग्रन्थिभेदस्तव तेन कृती भवान् ।। २६५ ।।

 हृदयस्य ग्रन्थिभेदात्पुराण्यविवेकदशायामपि असंगचिद्रूपत्वेन कूटस्थ एवं व्याध्यादिभिरपीडित एवेति वदसि चेतदस्माकमपीष्टापत्तिरेव । ततस्तदसंगत्वं न विस्मर । अयमेव कूटस्थस्यासंगत्वविवेक एव तव ग्रन्थिभेद: पाशनाशः । तेन