पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२३३
कल्याणपीयूषव्याख्यासमेता

तदज्ञानेन भवान् कृती कृतकृत्यो भवति । कूटस्थस्यासंगत्वज्ञानमेव सर्वग्रन्थिभेद इत्यथः ॥ २६५ ॥

 ज्ञान्यज्ञानिनोर्हृदयग्रन्थेर्भावाभावावेव वैषम्यहेतू इत्याह, नैवमिति ।

नैवं जानन्ति मूढाश्चेत्सोऽयं ग्रन्थिर्नचापरः ।
ग्रन्थितद्भेदमात्रेण वैषम्यं मूढबुद्धयोः ॥ २६६ ॥

 यतो मूढाः एवं कूटस्थस्य नित्यासंगतां न जानन्ति अतोऽयं पूवोंक्तो ऽध्यासमूल इच्छाविशेष एव ग्रन्थिः, अपरो न । मूढबुद्धयोर्ज्ञानिज्ञानिनो ग्रन्थितद्वेदमात्रेण वैषम्यम् । ग्रन्थेस्सत्वे मूढत्वं तद्भेदे बुद्धत्वमिति वैष- भ्यम् ॥ २६ ॥

 ज्ञान्यज्ञानिनोभेद एतत्कृत एव न तु प्रवृत्तिनिवृत्तिकृत इत्याह, प्रवृत्ता-

प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रियमनोधियाम् ।
न किंचिदपि वैषम्यमन्त्यज्ञानिविबुद्धयोः ॥ २६७ ॥

 प्रवृत्तौ कर्मणामाचरणे, निवृत्तौ तदनाचरणे । स्पष्टमन्यत् ॥ २६७ ॥

 तत्र दृष्टान्तमाह,व्रात्येति ।

व्रात्यश्रोत्रिययोर्वेदपाठापाठकृता भिदा ।
नाहारादावस्ति भेदस्सोऽयं न्यायोऽत्र योज्यताम् ॥ २६८ ॥

 व्रात्य उपनयनादिसंस्कारहीनः । श्रोत्रियो वेदेषु शिक्षितस्सदाचारसंपन्नः। भिदा भेदः । स्पष्टमन्यत् ॥२६८॥

 ग्रंथिशून्यस्य ज्ञानिनो लक्षणं गीतावाक्येनाचष्टे, नेति । (गी. १८-१०)

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ।
उदासीनवदासीन इति ग्रन्थिभिदोच्यते ॥ २६९ ॥

30