पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
[चित्रदीप
पञ्चदशी

 ज्ञानी संप्रवृत्तान संप्राप्तानि दुःखानि न द्वेष्टि । निवृत्तानि सुखानि न कांक्षति । किं तूदासीनः प्रवर्तते । इतीयमेव ज्ञानिनो ग्रन्थिभिदा हृदयग्रन्थेर भाव उच्यते । सुखदुःखनिवृत्तिप्राप्तयोर्न ज्ञानी विकारमेतीति भावः ॥ २६९ ॥

 ननु ज्ञानान्तरमप्यौदासीन्यपरमिदं वाक्यम् , न तु ग्रन्थिभेदार्थबोधक मित्याशंक्य परिहरति, औदासीन्यमिति ।

औदासीन्यं विधेयं चेद्वच्छब्दव्यर्थता तदा।
न शक्ता अस्य देहाद्य इति चेद्रोग एव सः ॥ २७० ॥

 औदासीन्यमेव विधेयमेतद्वाक्येन बोध्यमित्युच्यते चेत्तदा वच्छब्व्यर्थता उदासीनवदित्यत्र वच्छब्दस्य वैयर्थ्यम् स्यात् । तत्र ह्युदासीनो भूत्वाऽऽसीन इति मोक्तम् । किं तूदासीनवदासीन इत्युक्तम् । तस्मादुदासीन इव दृश्यते । स्वतस्तु सर्वपाशविनिर्मुक्तत्वात्सुखदुःखाभ्यां न स्पृश्यते । अतो नेदं वाक्यमौदासीन्यपरं किंतु ग्रन्थिशून्यत्वे प्रमाणमित्यर्थः । ननु ज्ञानिनः प्रवृत्तिनिवृत्त्यभावे सामर्थ्याभाव एव कारणं न तु ग्रन्थ्यभाव इत्याशंक्याह, नेति । अस्य ज्ञानिनो देहाद्या देहेन्द्रियादयः प्रवृत्तिनिवृत्योर्न शक्त असमर्था इति चेत्स शक्त्यभावो रोग एव । रोगनिमित्तक एव न त्वसंगत्वज्ञाननिमित्तकः ॥२७०॥

 ब्रह्मज्ञानिनोऽसंगनिमित्तमौदासीन्यमशक्तिकृतमिति वदतां बुद्धिकौशलमुपहसति, तत्त्वबोधमिति ।

तत्त्वबोधं क्षयं व्याधिं मन्यन्ते ये महाधियः ।
तेषां प्रज्ञाऽतिविशदा किं तेषां दुश्शकं वद ॥ २७१ ॥

 ज्ञानिनस्तत्त्वबोधं तत्त्वज्ञाननिमित्तमसंगस्वभावं क्षयं व्याधं राजयक्ष्मेति ये महाधियो मन्यन्ते तेषां प्रज्ञाऽतिविशदा अत्यन्तनिर्मला । तेषां दुश्शकं किमस्तीति वदेति सोपहासं वचः ॥ २७१ ॥

 ननु केवलमस्थाने परिहासोऽयं यतो ज्ञानिनामौदासीन्यं पुराणप्रसिद्ध मिति चेद्ज्ञानिनोऽपि प्रवृत्त्यादेः श्रुतौ प्रतिपादनात्तन्नेत्याह,भरतादेरिति ।