पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२३५
कल्याणपीयूषव्याख्यासमेता

भरतादेरप्रवृत्तिः पुराणोक्तेति चेत्तदा ।
जक्षन् क्रीडन् रतिं विंदन्नित्यश्चौषीर्न किं श्रुतिम् ॥२७२ ॥

 भरतादेर्ज्ञानिनो जनस्यापि लोकव्यवहारेऽप्रवृत्तिः पुराणोक्ता पुराणप्रसिद्धेति चेत्तदा जक्षन् क्रीडन् रतिं विंदन्निति, “जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा जातिभिर्वा वयस्यैर्वा नोपजनं स्मरन्निदं शरीर’ (छां. ८. १२. ३.) मिति, श्रुतिं नाश्रौषीः किम् ? प्रवृत्तिप्रतिपादकं श्रौतं वाक्यं त्वया किं न श्रुतमित्यर्थः॥२७२॥

 किंच तव शंकाऽपि पुराणतात्पर्यानभिज्ञतामूलिकानुभवविरुद्धा चेत्याह,नेति।

न ह्याहारादि संत्यज्य भरताद्याः स्थिताः क्वचित् ।
काष्ठपाषाणवत्किम्तु संगभीता उदासते ॥ २७३ ॥

 स्पष्टः पूर्वार्धः। काष्ठपाषाणवदचेतनपदार्था इव न स्थिताः । किन्तु तत्र प्रवर्तन्त एवेत्यनुभवः । संगभीता उदासते औदासीन्येन वर्तन्ते । नान्तरीयक- प्रवृत्तीतरप्रवृत्तिशून्या एव वर्तन्त इति पुराणतात्पर्यविषयीभूतोऽर्थ इति तात्पर्यम् ॥२७३॥

 निस्संगत्वमेव सर्वैर्मुमुक्षुभिरेष्टव्यंमिति तदेव स्तौति, संगीति ।

संगी हि बाध्यते लोके निस्संगः सुखमश्नुते ।
तेन संगः परियाज्यः सर्वदा सुखमिच्छता ॥ २७१ ॥

 स्पष्टोऽर्थः ॥२७४ ॥

 ननु विषयाभिमानत्यागस्यैव ज्ञानिलक्षणत्वेऽन्तर्विषयाभिमानशून्येषु बहिरभिमानवद्वयवहरत्स्वज्ञत्वं जनैः कथं व्यवह्रियत इत्याशंक्य परिहरति,अज्ञात्वेति।

अज्ञात्वा शास्त्रहृदय मूढो वक्त्यन्यथाऽन्यथा ।
मूर्खाणां निर्णयस्त्वास्तामस्मत्सिद्धान्त उच्यते ॥ २७५॥