पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
[चित्रदीप
पञ्चदशी

 शास्त्रहृदयं तत्त्वम् । अन्यथाऽन्यथा ज्ञानिनमज्ञत्वादिप्रकारैर्वक्ति व्यवहरति। स्पष्टमन्यत् ॥ २७५ ॥

 वेदान्तसिद्धान्तस्वरूपमाह वैराग्येति ।

वैराग्यबोधोपरमाः सहायास्ते परस्परम् ।
प्रायेण सह वर्तन्ते वियुज्यन्ते क्वचित् क्वचित् ॥ २७६ ॥

 वैराग्यबोधोपरमाः वैराग्यं विषयेषु वीतरागत्वं बोधो ब्रह्मात्मनोरैक्यज्ञानम् उपरमो विषयेभ्यो बुद्धिनिवृत्तिः, त एते परस्परमन्योन्यं सहायास्सहकारिणः । एते प्रायेण सह वर्तन्ते । क्वचित् कचिद्वियुज्यन्ते प्रत्येकमप्यवतिष्ठन्तीत्यर्थः ॥२७६॥

 प्रत्येकमवस्थितिः कुत अवसीयत इत्यत आह, हेत्विति ।

हेतुस्वरूपकार्याणि भिन्नान्येषामसङ्करः ।
यथाववगन्तव्यः शास्त्रार्थं प्रविविच्यता ॥ २७७ ॥

 एषां वैराग्यबोधोपरमाणां हेतुस्वरूपकार्याणि भिन्नानि । । एवं च तेषां हेतुभेदात्स्वरूपभेदात्कार्यभेदाच्च भेदसिद्धिः । अतः प्रत्येकमप्यवस्थितिस्सिद्धा। तदाह, एषामसङ्कर इति । शास्त्रार्थ शास्त्राणां भावं प्रविविच्यता पुरुषेण एषां वैराग्यादीनां असङ्करो भेदो यथावदवगन्तव्यः । प्रायेण सहावस्थानमादायाभेदभ्रमो न कार्य इति तात्पर्यम् ॥ २७७ ॥

वैराग्यभेदोपरतीनां हेतुकार्यस्वरूपविचारः।

 वैराग्यस्य हेतुस्वरूपकार्याण्याह, दोषेति ।

दोषदृष्टिर्जिहासा च पुनर्भागेष्वदीनता।
असाधारणहेत्वाद्या वैराग्यस्य त्रयोऽप्यमी ॥ २७८ ॥

 विषयेषु दोषदृष्टिः अनित्यात्वादिदोषपरिशीलनं वैराग्यस्य हेतुः । विषय भोगानां जिहासा हातुमिच्छा वैराग्यस्य स्वरूपम् । पुनर्भोगेषु विषयेष्दीनता