पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२३७
कल्याणपीयूषव्याख्यासमेता

प्रवृत्त्यभावस्तस्य कार्यम् । एवममी त्रयो वैराग्यस्यासाधारणहेत्वाद्याः। आद्य शब्देन स्वरूपकार्ये गृह्येते ॥ २७८ ॥

 अद्य बोधस्य हेत्वादय उच्यन्ते, श्रवणेति ।

श्रवणादित्रयं तद्वत्तत्त्वमिथ्याविवेचनम् ।
पुनर्ग्रन्थेरनुदयो बोधस्यैते त्रयो मताः ॥ २७९ ॥

 श्रवणादित्रयं श्रवणमनननिदिध्यासनानि तद्वत्तत्त्वमिथ्याविवेचनं तत्त्वतो मिथ्यायाः पृथक्करणम् ब्रह्म सत्यं जगन्मिथ्येत्याकारकं ज्ञानमित्यर्थः । पुनर्हृदयस्य ग्रन्थेरनुदयोऽनुत्पत्तिस्तस्य कार्यम् । एवमेते त्रयः क्रमेण बोधस्य हेतुस्वरूपकार्याणीति मताः ॥२७९॥

 अनन्तरमुपरतेर्हेत्वादय उच्यन्ते, यमेति ।

यमादिधीर्निरोधश्च व्यवहारस्य संक्षयः ।
स्युर्हेत्वाद्या उपरतेरित्यसंकर ईरितः ॥ २८० ॥

 यमादिः आदिशब्देन नियमासनप्राणायामप्रत्याहारध्यानधारणसमाधयो गृह्यन्ते । धीनिरोधश्चित्तवृत्तेर्नियमनं, व्यवहारस्य संक्षयो नाशः, नैष्कर्म्यमिति यावत्, एवमुपरतेरेते क्रमशो होत्वाद्याः स्युः । एवं हीत्वादीन्निरूप्य प्रतिज्ञातमसंकरमुपसंहरति, इतीति । इत्येवं तेषामसंकरे भेद ईरित उक्तः ॥२८०॥

 वैराग्यबोधोपरमानां मध्ये प्रधानत्वं तत्त्वबोधस्येतरयोस्तु तदुपकारित्वमभिहितमित्याह, तत्त्वबोध इति ।


तत्त्वबोधः प्रधानम् स्यात्साक्षान्मोक्षप्रदत्वतः।
बोधोपकारिणावेतौ वैराग्योपरमावुभौ ॥ २८१ ॥

 सुलभा पदयोजना । साक्षादितरसहायमनपेक्ष्य। ब्रह्माहमस्मीति ज्ञानस्यैव ब्रह्मभावाप्तिकारणत्वम् । "तमेवं विदित्वातिमृत्युमेति नान्यः पंथा विद्यतेऽयनाये"ति श्रुतेः । (श्वे. ३.८.) साक्षात्फलजनकत्वेन तस्य प्राधान्यम् । "ब्रह्मणो निर्वेदमाया न्नास्त्यकृतः कृतेन" (मुं. १.२.१३) शान्तो दान्त उपरतस्तितिक्षुस्समाहिती