पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥६॥ ]
२३९
कल्याणपीयूषव्याख्यासमेता

ब्रह्मलोकतृणीकारो वैराग्यस्यावधिर्मतः ।
देहात्मवत्परात्मत्वदाढर्ये बोधस्समाप्यते ॥ २८५ ॥

 ब्रह्मलोकतृणीकारः ब्रह्मलोके यत्सुखं तस्यापि तृणवन्निरसनं वैराग्यस्या- वधिस्सीमेति मतः । देहात्मवत् यथाऽज्ञानदशायां देह, एवात्मेति दृढं ज्ञानं तथैव परात्मत्वदार्ढ्ये ब्रह्माहमस्मीति दृढज्ञाने बोधः समाप्यते ॥ २८५॥

सुप्तिवद्विस्मृतिस्सीमा भवेदुपरमस्य हि।
दिशाऽनया विनिश्चेयं तारतम्यमवान्तरम् ॥ २८६ ॥

 सुप्तिवद्यथा सुप्तौ सर्वव्यवहारोपशमस्तद्वत्सुर्वव्यवहारस्य विस्मृतिरुपरमस्य सीमा भवेत् । एवं परिपाकावस्थां प्रदर्श्य तत्तत्पूर्वावस्थातस्तेषां तारतम्यमेतन्मार्गेणैव स्वबुद्ध्या निश्चेयमित्याह, दिशेति । अनया दिशा एतन्मार्गेणावान्तर सम्यग्वैराग्यबोधोपरमाणां तारतम्यं न्यूनाधिकभावं विनिश्चेयं स्वबुद्ध्योहनीयम् ॥ २८६ ॥

 ननु तत्त्वबोधवतामपि व्यवहारे वैषम्यदर्शनात् ज्ञानस्य मुक्तिहेतुत्वमसिद्धमित्याशंक्याह, आरब्धेति ।

आरब्धकर्मनानात्वाद् बुद्धानामन्यथाऽन्यथा ।
वर्तनं तेन शास्त्रार्थे भ्रमितव्यं न पंडितैः ॥ २८७ ॥

 आरब्धकर्मनानात्वात् बुद्धानामपि वर्तनमन्यथाऽन्यथा नानाप्रकारम् । तत्तत्फलानुरोधेन बहुप्रकारमित्यर्थः । तेन फलभेदेन प्रवर्तनभेदस्योपपन्नवात्प्रवृत्तेः फलनाशपर्यन्तत्वात् सकलफलनाशे बंधकप्रवृत्तेस्सर्वात्मना नाशान्मुक्तिरिति क्रम इति ज्ञानात्कैवल्यमिति शास्त्रार्थे पंडितैर्न भ्रमितव्यं न विप्रतिपत्तव्यम् । बोधस्य मुक्तिहेतुत्वेऽप्यन्यस्य प्रतिबंधकस्य सद्भावे बोधफलीभूतं कैवल्यं न सिध्यति । यदा प्रतिबंधकनिवृत्तिस्तदा कैवल्यमिति नान्वयव्यभिचार इति भावः ॥ २८७॥