पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
[तृप्तिदीप
पञ्चदशी

 अथ पूरुषशब्दो व्याख्यायते, भ्रमेति ।

भ्रमाधिष्ठानभूतात्मा कूटस्थासंगचिद्वपुः ।
अन्योन्याध्यासतोऽसंगधीस्थजीवोऽत्र पूरुषः ॥ ५॥

 कूटस्थासंगचिद्वपुः कूटस्थो निर्विकारः असंगः चिद्वपुः ज्ञानस्वरूपश्च भ्रमाधिष्ठानभूतात्मा भ्रमस्य देहेन्द्रियादिधर्माध्यासेनान्यधाग्रहणस्याधिष्ठानभूतात्मा आधारभूतः आत्मा स्वयमसंगो निर्विकारश्च बुद्धौ चिदाभासरूपेण प्रतिबिंबितो ऽन्योन्याध्यासत अन्यस्मिन्नन्यमन्यधर्मोश्चारोप्येतरेतराविवेकतया तादात्म्याध्यासेन असंगधीस्थजीवः स्वेन संगरहितायां धियि यस्तिष्ठति स जीवशब्दाभिधानो ऽत्रास्यां श्रुतौ पूरुष इत्युच्यते । पुरि देहे शेते इति पुरुषः । “पुरितति शेते” (बृ. २.१.१९) इति श्रुतेः । पुरुष एव पूरुषः । कूटस्थचैतन्यस्य बुद्धौ प्रतिबिंब एव जीव इत्युच्यते ॥ ५॥

 ननु बुद्धिस्थचिदाभासस्यैव जीवत्वम् । किं तत्राधिष्ठानवैशिष्ट्येनेत्याशंकां परिहरति, सेति ।

साधिष्ठानो विमोक्षादौ जीवो विक्रियते न तु ।
केवलो निरधिष्ठानविभ्रान्तेः क्वाप्यसिद्धितः ॥ ६ ॥

 साधिष्ठानः अधिष्ठानं कूटस्थो यस्मिन्नन्यधर्मा अध्यस्यन्ते तेन सहिततद्विशिष्टो जीवश्चिदाभासरूपो विमोक्षादौ विमोक्ष आत्यन्तिकनिःश्रेयसं, आदिशब्देन स्वर्गाद्युत्तमलोका गृह्यन्ते, तेषु तेषामवाप्तवधिक्रियते । ब्रह्मसाक्षात्कारे कर्मसपादिताभ्युदयस्वरूपस्वर्गादिके वा कूटस्थविशिष्टस्यैव चिदाभासस्याधिकारः । न तु केवलो निरधिष्ठानोऽधिक्रियते । तत्र हेतुमाह, निरधिष्ठान इति। निरधिष्ठानविभ्रान्तेरधिष्ठानरहितस्यारोप्यमानस्य भ्रान्तेस्तन्मात्रगोचराया भ्रान्तेः क्वापि यत्र कुत्राप्यसिद्धितोऽविद्यमानत्वात् । लोकेऽपि रज्जुमनवगाह्य सर्पभ्रान्तिर्न दृश्यते । तद्वदिहापि कूटस्थमनवगाह्य चिदाभासमात्रविषयिणी भ्रान्तिर्नोदेति । एवं जीवभ्रान्तिरधिष्ठानाभासोभयावगाहिन्येव, न तु केवलभासगोचरा । अतो भ्रान्तिविषयो जीवोऽधिष्ठानविशिष्टाभासरूप इत्यवश्यं वक्तव्यमिति भावः ॥६॥