पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
[तृप्तिदीप
पञ्चदशी

 असंगे चिदात्मन्यहंकृतिरहंकारो न युक्ता । तथा सत्यस्मीति व्यवहारः कथं युज्यते ? अहमस्मीति शब्दाभ्यामहंकारविशिष्टस्यैव प्रतीत्या तद्रहिते कथम् तादृशशब्दप्रयोगः ? इत्युच्यते चेत् , समाधत्ते, शृण्विति । अहमोऽस्मच्छब्दस्य एको मुख्योऽर्थ: द्वावमुख्यावित्यर्थस्त्रिविधः त्रिप्रकारकः ॥ ९॥

 अत्र त्रैविध्यस्य - कोपयोग इत्याशंकां मनसि निधाय द्वाभ्यामुपयोगं । दर्शयति, अन्योन्येति ।

अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः।
एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रयुज्यते ॥ १० ॥

 कूटस्थाभासयोर्वपुः स्वरूपमन्योन्याध्यासरूपेणोभयोस्तादात्म्याध्यासरूपे णैकीभूय अविद्यया मुख्योऽर्थो भवेत् । कूटस्थचिदाभासयोर्विवेकज्ञानशून्यैर्मूढै: प्रयुज्यत इति तत्र प्रयुज्यते । ज्ञानिनोऽपि विवेकोदयात्पूर्वं मूढत्वाविशेषादत्रत्य मूढशब्देनावस्थाभेदेन तेऽपि संगृहीताः । अतोऽयमर्थः सार्वजनीनव्यवहारविषय इति मुख्य इत्युच्यते ॥ १०॥

 अनन्तरं मुख्यार्थमाह, पृथगिति ।

पृथगाभासकूटस्थावमुख्यौ तत्र तत्त्ववित् ।
पर्यायेण प्रयुङ्क्तेऽहंशब्दं लोके च वैदिके ॥ ११॥

 आभासकूटस्थौ पृथक् प्रत्येकतोऽस्मच्छब्दार्थत्वेन विवेकतः तत्र तत्तदर्थे तत्वविदहम्शब्दम् लोके लोकव्यवहारे वैदिके च पर्यायेण कादाचित्कतया प्रयुङ्क्ते । भिन्नार्थप्रयोगस्य कादाचित्कत्वोक्त्या एकीभूतार्थेऽपि स प्रयुङ्क्त इति सूचितम् । एतेनैतदर्थयोरसार्वजनीनत्वादमुख्यार्थत्वं लोके इति सार्वजनीनव्यवहारविषये प्रवाहरूपे गंगायां जलमिति व्यवहारो मुख्य इति प्रयोजनापेक्षया कतिपयजन व्यवहारविषये तीररूपार्थे गंगायां घोष इति व्यवहारोऽमुख्य इति च व्यवस्था दृश्यते । ज्ञानिनो ब्रह्माहमस्मीत्यादिव्यवहारेऽहंशब्देन कूटस्थमात्रं बुध्यते । अहं ब्रह्म जानामीत्यत्र तस्य ब्रह्मभिन्नतया भेदनिबंधनकर्तृकर्मव्यपदेशो बाधित एव