स्यात् । एकीभूतस्य भेदे तदानीं शुद्धब्रह्मणो ज्ञानाभावेन ब्रह्म जानामीति व्यवहा रानुपपत्तेः । अतश्चिदाभासमात्रमेवाहमर्थ इत्यभ्युपेयम् ॥ ११॥
कूटस्थचिदाभासयोरर्थयोः प्रत्येकमहं शब्दप्रयोगं द्वाभ्यां दर्शयति,
लौकिकव्यवहारेऽहं गच्छामीत्यादिके बुधः । |
बुधः कूटस्थचिदाभासयोर्विवेकज्ञानवानहं गच्छामीत्यादिके लौकिक- व्यवहारे कूटस्थाच्चिदाभासं विविच्यैव पृथक्कृत्यैव तं चिदाभासं विवक्षति ॥१२॥
तत्र प्रथमेन चिदाभासस्यामुख्यार्थत्वं विशदय्याद्य कूटस्थस्यामुख्यार्थत्वं विशदयति, असंग इति ।
असंगोऽहं चिदात्माऽहमिति शास्त्रीयदृष्टितः ।। |
अयं बुधः शास्त्रीयदृष्टितः कूटस्थो नित्यः चिदाभासो मायाकल्पित इत्याकारकवेदान्तार्थजन्यज्ञानतः चिदाभासाद्विवेचिते केवले कूट्स्थे “अहं कूटस्थो ऽसंगोऽहं चिदामेत्या"त्यादावहंशब्दं प्रयुङ्क्ते ।। १३ ॥
नन्वहं ब्रह्मास्मीति ज्ञानं किमर्थं केनापेक्ष्यते ? अज्ञाननिवृत्यर्थं कूटस्थे- नेति चेन्न । ज्ञानित्वाज्ञानित्वयोरुभयोरप्यभावेनाज्ञाननिवृत्तेरनपेक्षणात् ज्ञानित्वस्यासंभवात् । आभासेनेति चेन्न । तस्य कूटस्थाभेदस्य सर्वथा बाधि- तत्वेनास्मीतिपदबोधितैक्यस्यासंभवादित्याशंकते, ज्ञानिताज्ञानितेति ।
ज्ञानिताज्ञानिते त्वात्माभासस्यैव न चात्मनः । |
ज्ञानिताज्ञानिते विद्यावेद्ये त्वात्माभासस्य चिदाभासस्य तु धर्मौ, न चात्मनः । तथा सति कूटस्थादन्य आभासश्चिदाभासोऽहं कूटस्थोऽस्मीति कथम् बुध्यतां जानीताम् ॥ १४ ॥