पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८

पुटमेतत् सुपुष्टितम्
[तत्वविवेके
पञ्चदशी

तद्गर्भजो लिन्गनसोमयाजी कल्याणपीयूपपदाभिधेयाम् ।
व्याख्यां तनोत्यर्पयितुं स्वपित्रोः पदाम्बुजे पञ्चदशीविपञ्चीम् ॥ ५॥

यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।
व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ ६ ॥

 इह खलु मुमुक्षुजनानुजिघृक्षया वेदान्ततत्त्वव्युत्पित्सूनां सुखबोधाय परमकारुणिकस्तत्रभवानपरशङ्करावतारः श्रीविद्यारण्यगुरुः पञ्चदशीनाम्ना विख्याते प्रन्थराजे तत्वविवेकाख्यमादिमं प्रकरणमारभमाणः प्रारीप्सितग्रन्थस्य निरन्तराय परिसमाप्तेस्साधनीभूतं शिष्टसम्प्रदायानुमितश्रुतिबोधिनेतिकर्तव्यताकमिष्टदेवता गुरुनमस्काररूपं प्रेक्षावत्प्रवृत्तिप्रयोजकं शिष्यपरम्परानुकरणकारणीभूतं विषयप्रयोजनाधिकार्यनुबंधित्रयसूचकं मङ्गलमादावुपनिबध्नात्यनुष्टुब्रूपेण, नम इति ।

पञ्चदशीप्रारम्भः ।

मङ्गलाचरणम्

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने ।
सविलासमहामोहग्राहग्रासैककर्मणे ॥ १ ॥

 पञ्चदशप्रकरणान्यस्मिन् ग्रन्थे सन्तीति स्त्रीलिङ्गप्रत्ययेन वेदान्तपञ्चदशीत्याख्यया विख्यातोऽयं ग्रन्थः । ननु न केनापि प्रत्ययेन स्त्रीप्रत्ययसम्पादकेन मतुबर्थकेन व्युत्पादयितुं शक्यत इति चेन्न; "आर्श आदिभ्योऽच्" इति सूत्रेण अच्प्रत्यये ‘नस्तद्धित’ इति टिलोपे पञ्चदशेति रूपनिष्पत्तौ तस्य गौरादिपाठात् ’षिद्गौरादिभ्यश्चे' ति ङीष्प्रत्ययस्य सुसाधत्वात्; किञ्च पूर्वपदस्य तदधिकलक्षणया पञ्चाधिकानां दशानां प्रकरणानां समाहार इत्यर्थे तद्धितार्थेत्यादिना समाहारसमासे पञ्चतक्षेत्यादाविव ‘अनो नलोपश्च वा द्विगुस्त्रिया' मिति वार्तिकेन नलोपे ‘द्विगो' रिति ङीपा वा समाधेयम्; यद्वा पञ्चदशानां पूरणीत्यर्थे डिटि टित्वप्रयुक्तेन ङीपा पञ्च दशीति प्रत्येतव्यः। 'पक्षान्तौ पञ्चदश्या’ वित्यमरकोशबलेन पञ्चदशीशब्देन पूर्णिमार्थे गृहीते ‘मञ्चाः क्रोशन्ती' तिवत् तात्स्थ्यलक्षणया ज्योत्स्नेत्यर्थस्सम्पद्यते । एवं च प्रकृतीनां सुधाकरदीधितिरिव जिज्ञासूनामतिदुरूदाऽद्वैतसिद्धान्तरहस्यपरि