पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
[तृप्तिदीप
पञ्चदशी

 चिदाभासस्य कूटस्थातिरेकेणावर्तनेनाभेद उपपद्यत इति समाधत्ते, नेति ।

नायं दोषश्चिदाभासः कूटस्थैकस्वभाववान् ।
आभासत्वस्य मिथ्यात्वात्कूटस्थत्वावशेषणात् ॥ १ ॥

 अयं दोषो न । कुतः ? चिदाभासः कूटस्यैकस्वभाववान् कूटस्थेना भिन्नस्वभाववान् । ततो नातिरिक्तः । तर्हि कूटम्थवदयमपि नित्यः स्यादिति न वाच्यम् । आभासत्वस्य मिथ्यात्वात् कूटस्थत्वावशेषणाच्च आभासत्वस्य प्रति- बिंबभूतस्य चिदाभासस्य मिथ्यात्वात्, कूटस्थस्वरूपस्य सत्यतया परिशेषणच्च। उपाधिसत्ताधीनसत्ताक उपाधिनाशे विनश्यति । यथा दर्पणाधीनः प्रतिबिंबः । तद्वदयमपि चिदाभास उपाधिनाशाधीननाशकत्वात्तन्नाशे विनश्यति । विंबभूतः कूटस्थस्त्ववशिष्यत इति भावः ॥ १५॥

 तर्हि कूटस्थोऽहमित्याकारकं चिदाभासस्य संसरापनोदकं ज्ञानमपि मिथ्यैव स्यादित्युक्तेऽस्माकमपीष्टापत्तिरेवेत्याह, कूटस्थोऽस्मीति ।

कूटस्थोऽस्मीति बोधोपि मिथ्या चेन्नेति को वदेत् ।
न हि सत्यतयाऽभीष्टं रज्जुसर्पविसर्पणम् ॥१६ ॥

 कूटस्थोऽस्मीति चिदाभासनिष्ठो बोधः। स्पष्टमन्यत् । आरोपितस्य मिथ्यात्वे तदाश्रयभूतस्य क्रियाजातस्यापि तत्त्वमेवेति भावः ।। १६॥

 नंनु भ्रमांशस्य तिरस्काराच्चिदात्माहमसंगोस्मीति बुध्यत इत्युक्तमष्टमे श्लोके । कूटस्थोऽहमिति ज्ञानस्य मिथ्यात्वेन तेन कथं संसारस्य निवृत्तिरि त्याशंक्याह, तादृशेति ।

तादृशेनापि बोधेन संसारो हि निवर्तते ।
यक्षानुरूपो हि बलिरित्याहुर्लौकिका जनाः ॥ १७॥

 सुगमा पूर्वार्धपदयोजना । यथा स्वप्नव्याघ्रदर्शनेन निद्रानिवृत्तिर्भवति । तल लौकिकाभाणकेनोपपत्तिमाह , यक्षेति । यक्षे यादृशं निकृष्टत्वं तादृश