पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
[तृप्तिदीप
पञ्चदशी

 देहात्मज्ञानबाधकं देह एवात्मेति ज्ञानस्य बाधकं प्रतिबंधकं देहात्मज्ञानवत् देह एवात्मेत्यसंदिग्धमविपर्यस्तं यत् ज्ञानं तदिवात्मन्येव शुद्धात्मन्येवः दृढतमं ब्रह्माभिन्नत्वेन ज्ञानं यस्य जिज्ञासोर्भवेत् स नेच्छन्नपि मोक्षेच्छारहितोऽपि मुच्यते । देहात्मज्ञानवद्दृढतरेण ब्रह्मात्मज्ञानेन संसारहेतुदेहात्मज्ञानस्य बाधितत्वादवश्यं मुक्तो भवतीति भावः ॥२०॥

 इदमस्तु सन्निकृष्टमित्यनेनेदमापरोक्षस्यैव परामर्शादेतावत्पर्यन्तं कूटस्थ- स्यापरोक्षज्ञानाभावात्कथमयमित्यनेन परामर्श इत्याशंक्य समाधत्ते, अयमिति ।

अयमित्यपरोक्षत्वमुच्यते चेत्तदुच्यताम् ।
स्वयंप्रकाशचैतन्यमपरोक्षं सदा यतः ॥ २१ ॥

 अयमस्मीतिपूरुष इत्यत्रायमिति शब्देन यथाऽयं घट इति स्थले घटस्य प्रत्यक्षत्वं तथैवात्मनोऽप्यपरोक्षत्वमुच्यते चेत् प्रसज्यत इति चेत् तदपरोक्षत्व- मुच्यताम् प्रसज्यतां नाम, इष्टापत्तेः । इष्टापत्तिं दर्शयति, स्वयमिति । यतः स्वयंप्रकाशचैतन्यं साधनानन्तरमनपेक्षं स्वयं भानरूपं तस्कूटस्थचैतन्यं सदा ऽपरोक्षमेव । एतावत्पर्यन्तं कूटस्थः परोक्ष इति तव ज्ञानं भ्रमः स्वयंप्रकाशे पारोक्ष्यासंभवात् ॥ २१ ॥

 आत्मनः स्वप्रकाशचिद्रूपत्वेन तद्ज्ञानस्य नित्यापरोक्षत्वं सिध्यति । अयमितीदंशब्दस्वारस्यप्रतिपादनेनाऽत्रात्मज्ञानस्य शाब्दत्वलाभात्परोक्षत्वमिति च सिध्यति । अपरोक्षस्यैवात्मज्ञानत्वेन तद्भिन्नस्य परोक्षज्ञानस्याज्ञानत्वमित्य प्यायाति । एवं च विरुद्धद्विकं कथं घटत इत्यांशक्य समाधत्ते, परोक्षमिति ।

परोक्षमपरोक्षं च ज्ञानमज्ञानमित्यदः ।
नित्यापरोक्षरूपेऽपि द्वयं स्याद्दशमे यथा ॥ २२॥

 परोक्षमपरोक्षं ज्ञानमज्ञानमित्येतद्द्विकद्वयं नित्यपरोक्षरूपेऽपि स्यात्। अतः एतद्विके विरुद्धे इति भावः । एततयोर्द्विकयोरविरोधम् दृष्टान्तेन दर्शयति, दशमे यथेति । दशमे दशमस्त्वमसीति वाक्यस्थले यथा परोक्षत्वापरोक्षत्वयोर्ज्ञाना ज्ञानयोश्च दर्शनात् स्वरूपतो विरोधेऽपि । रूपान्तरेणाविरोधोऽभ्युपेय एवेति भावः । २२ ॥