पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२५१
कल्याणपीयूषव्याख्यासमेता

 दृष्टान्तं विवृणोति, नवेति ।

नवसंख्याहृतज्ञाने दशमो विभ्रमत्तदा ।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ २३ ॥

 गणनायां नवसंख्याहृतज्ञानः नवसंख्ययाऽपहृते ज्ञानं यस्य सः नवैव विपुलजनदीम् तीर्णः दशमः क्वापि निमग्न इति भ्रान्त्यपहतचेता दशमो गणन कर्ता अपरान् तान्नव स्वं च प्रत्यक्षेण वीक्षमाणोऽपि विभ्रमात् अहमेव दशमोऽस्मीति न वेत्ति । अपरोक्षत्वेन प्रतीयमानेऽपि स्वस्मिन् भ्रान्तिकृतमज्ञानं पुरतः प्रतिभाति ॥ २३॥

 अज्ञानकृतावरणविक्षेपयोरावरणस्वरूपं निरूपयति, नेति ।

न भाति नास्ति दशम इति स्वं दशमं तथा
मत्वा वक्ति तदज्ञानकृतमावरणं विदुः ॥ २४ ॥

 तदा गणनसमये दशमं स्वं मत्वाऽपि दशमो न भाति नास्तीति वाक्ति । तदज्ञानकृतमावरणं विदुः ॥ २४ ॥

 विक्षेपस्वरूपं दर्शयति, नद्यामिति ।

नद्यां ममार दशम इति शोचन् प्ररोदिति ।
अज्ञानकृतविक्षेपं रोदनादिं विदुर्बुधाः ॥ २५॥

 अज्ञानकृतावरणेन दशमो नद्यां ममारेति शोचन् प्ररोदिति बहु रोदिति।। तं रोदनादिमज्ञानकृतविक्षेपं अज्ञानेन दशमत्वाज्ञानेन कृतः कार्यरूपो यो विक्षेपस्तं बुधा विदुः । अत्र चित्रदीपगतषड्विंशसप्तविंशश्लोकावधस्ताम् षड्त्रिंशसप्तत्रिंश श्लोकावालोक्याः । विद्यमानयथार्थवस्तुस्वरूपमानं प्रतिबध्नात्यावरणशक्तिः । यथार्थस्व रूपाभाने तत्प्रयुक्तकार्यजातमज्ञानकृतं विक्षेप इति भावः ॥२५ ॥

 दशमो नास्तीत्याकारकासत्त्वांशनिवर्तकेनाप्तवाक्येनास्तीति परोक्षज्ञान- मुदेतीत्याह, नेति ।